________________
भवदत्तयतिः कृताञ्जलिर्जगौ । सांसारिकवन्दापनेच्छाऽस्ति । प्रभो! आदेशं देहि । गुरोरादेशं प्राप्य सुग्रामग्रामे गतो भवदत्तः । इतो नागिलायाः पाणिग्रहणं कुर्वाणेन भवदेवेन भवदत्तो नोपलक्षितः। ततो गुरुपाचे गतो हसितो भवदत्तः साधुभिः-स्वां स्फूर्ति स्फोरयित्वा भ्रातृप्रबोधार्थ गतः, तत्र वं चोपलक्षितोऽपि न । मयाऽसौ दीक्षा ग्राहयितव्यो भ्रातेति प्रतिज्ञां कृत्वा पुनर्भवदत्तो भवदेवं वन्दापयितुं चलितो गतस्तत्र यावत्तावन्नागिलाया मण्डनमहोत्सवे जायमानेऽर्द्धमण्डिता नागिलाऽभूत् । तावत्तत्रागतो भवदत्तः। भ्रातरमागतं प्रेक्ष्योत्थाय भवदेवो ननाम भक्त्या । शुद्धान्नपानेन भ्रात्रा भवदत्तः प्रतिलाभितः। ततो भवदत्तो व्रजन भवदेवं कियन्ती भमि साईमाकार्य पथि प्राह-धन्योऽसि त्वं यस्य साधावीदृशी भक्तिरित्यादिवाग्भिस्तं प्रीणयित्वा तस्य हस्ते घृतभृतं पात्रं ददौ । अपरसज्जनं सर्व विसृज्य भवदत्तो भवदेवेन समं बाल्यक्रीडादिवार्ता कुर्वाणो गुरुपार्श्वे जगाम । गुरुं नत्वा भवदत्तः । प्राह-भगवन्नयं भ्राता मया भवत्पार्धमानीतोऽस्ति । दीक्षां जिघृक्षुरस्ति । तेन दीक्षा भवदेवं ग्राहय । ततो दाक्षिण्येन भवदेवेन भ्रातुरुपरोधतो दीक्षा गृहीता। एकेन मुनिना भ्रात्रा च समं गुरुं नत्वाऽन्यत्र भवदत्तो गतः। भ्रातृवचसा संयम पालयन् नागिलां करिणीमिव हस्ती भवदेवः सस्मार। कालेन भवदत्तस्तपस्तीव्र तत्वा स्वर्ग ययौ । भ्रातरि स्वर्ग
Jain Educan
For Private & Personel Use Only
Tww.jainelibrary.org