SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ १२३ ॥ जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः कुरुत धर्ममनिन्द्यम् ॥ १ ॥ घनापायः कायः प्रकृत्तिचपला श्रीरपि चला, महारोगा भोगाः कुवलयदृशः सप्र्पसदृशः । गृहावासः पाशः प्रणयिषु सुखं स्थैर्यविमुखं, असारः संसारस्तदिह निपुणा जागृत जनाः ॥ २ ॥ " एवं विमृश्य द्वौ भ्रातरौ मातरमापृच्छय श्रीयशोभद्रपार्श्वे दीक्षां जगृहतुः । श्रीयशोभद्रसूरिभिस्तथा भाणितौ तौ यथा द्वादशाङ्गीं ज्ञातवंतावभूताम् । क्रमात् श्रीयशोभद्रसूरिभिर्भद्रबाहोः सूरिपदं विश्राणितम् । श्रीयशोभद्रसूरयः श्रीशत्रुञ्जयादिषु यात्रां चक्रुः । श्रीयशोभद्रसूरयः शुद्धं चारित्रमाराधयामासुः । आयुःक्षयावसरे सम्यग् [ गुरुपार्श्वे ] आराधनां चक्रुः । ततः क्रमादायुषः क्षये यशोभद्रसूरिपादाः गच्छभारं श्रीभद्रबाहौ मुक्त्वा स्वर्गे जग्मुः ॥ इति यशोभद्रकथा समाप्ता ॥ २८॥ Sasu वैराग्याद् गृहीत्वा धर्ममादरात् । जम्बूकुमारवन्मुक्तिसात भाजो भवन्ति हि ॥ १ ॥ तथाहि -मगधदेशे भूमिविभूषणे सुग्राम इति विश्रुतो भासतेतराम् । तत्र राष्ट्रकूटाभिधस्य कौटुम्बिकस्य रेवतीनाम्ना पत्न्यभूत् । एतयोः क्रमाद्भवदत्त भवदेवाह्रौ सुतावभूताम् । क्रमाद्वर्धमानौ धर्मकर्म्मपरौ जातौ च तौ । अन्यदा सुस्थितसूरिपार्श्वे वैराग्यवासितो भवदत्तो जगृहे व्रतम् । अनुसूरिपदद्वन्द्वं शास्त्राणि पठन् गीतार्थी भूयान्यदा Jain Education International For Private & Personal Use Only श्रीयशोभदसूरीश्वर - चरित्रम् | ॥ १२३ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy