________________
लापत्रस्थजलाः प्रभु तादृशं दृष्ट्वा प्रदक्षिणीकृत्य चिन्तयामासुः। यदि जलं मस्तकोपरि प्रक्षिप्यते । तदा सर्वाणि वस्त्राणिal विनक्ष्यन्ते । ततस्ते प्रभोः पदयोरधस्तादभिषेकं चक्रुः । तद्विनयसन्तुष्टः शक्रः प्रकटीभूय प्रभु भक्त्या प्रणम्य सुविनीता एते युगलिन इत्युक्त्वा तस्मिन् स्थाने द्वादशयोजनायामां नवयोजनविस्तृतां नवां पुरी विनीतामिति चकार ।।
प्रभोर्जन्मतो विंशतिपूर्वलक्षाणि व्यतिक्रान्तानि । ततः प्रभुणा केचिद्युगलिनः सचिवाः कृताः। केचिद् दूर्गाऽऽरक्षकाः | कृताः केचिच भोगा-गुरवः कृताः केचिद्वयस्या-राजन्याः कृताः शेषाश्च युगलिनः क्षत्रियाः पत्तयश्च कताः। ततः
करितुरगगोमहिषादिसङ्ग्रहः कारितः प्रभुणा । अथ कल्पद्रुमेषु उच्छिन्नेषु गतेषु अपक्वौषधिभक्षणपराणां युगलिनामुदरेषु दुष्यत्सु प्रभुणोक्तम् । हस्ततले कुक्षौ (कक्षायां) च मुक्त्वौषधीः भक्षयत। यतः-"ओमपाहारंता, अजीरमाणमि || ते जिणमुर्विति । हत्थेहिं घंसिउणं, आहारेह त्ति ते भणिआ॥१॥ आसी अ पाणिघसी तिम्मिअतंदुलपवालपुडभोई । हत्थतलपुडाहारा, जइआ किर कुलकरो उसहो ॥२॥” ततस्तथा कुर्वत्सु तेषु अग्निरुत्पन्नस्तं दृष्ट्वा भीतास्ते - प्रभुपार्श्वेऽन्येत्य जगुः। भगवन्नस्माकमौषधीभक्षयन् राक्षस उत्पन्नोऽस्ति । प्रभुणा ज्ञानेनाग्निमुत्पन्नं ज्ञात्वोक्तम्-तस्य । राक्षसस्याग्नेमध्ये मुक्त्वा यूयं भक्षयत । ततस्तथा कुर्वत्सु तेषु राक्षसरूपोऽग्निः सर्व भक्षयति । ततस्ते प्रभुपार्श्व गत्वा ।
Jain Educationa
For Private & Personel Use Only
Mw.jainelibrary.org