________________
॥ श्रीभरते
श्वर वृत्तिः ॥ ॥ ११ ॥
|ङ्गलानीति मरुदेवाऽवग्-सूनो ! जङ्गमकल्पवृक्षविततः शाखाशतेन क्रमात् त्रैलोक्यं निखिलं समीहितफलैः संतर्प्य यैः | सन्ततम् । सत्याशीरिति या वधूद्रयजुषः प्रोवाच तत्राङ्गिनां प्रीत्यै श्रीमरुदेव्यसौ विजयतां तीर्थङ्करस्य प्रसूः | ॥ १ ॥ इति मातुराशिषं प्रभुः पाप । किञ्चिदूनेषु षड्वर्षलक्षेषु व्यतिक्रान्तेषु सर्वार्थसिद्धिविमानान्च्युत्वा बाहुपीठजीवैौ सुमङ्गलादेव्याः कुक्षाववातरतुः । तदा सुमङ्गला चतुर्दश महास्वप्नानि गजादीनि ददर्श । क्रमात् तयोजीतयोर्जन्मोत्सवे कृते पुत्रस्य भरत इति नामाऽभूत् पुत्र्याश्च ब्राह्मीति नामाऽजनि । सुबाहुमहापीठजीवौ सुनन्दायाः कुक्षौ युग्मत्वेन बभूवतुः । पुरुषस्य बाहुबलिरिति नामाऽभूत्, पुत्र्याश्व सुन्दरीति नाम दत्तम् । क्रमात सुमङ्गला एकोनपञ्चाशत् युगलानि प्रासूत । एवं ऋषभदेवस्य पुत्रशतं पुत्र्यौ ब्राह्मीसुन्दर्यौ । क्रमात् कल्पवृक्षेषु हीनसत्रेषु फलदानशक्तिषु कषायबहुलानां नीतिमर्यादालङ्घनपराणां मिथः कलिपराणां युगलिनां श्रीना| भिकुलकरेण श्रीऋषभदेवः समर्पितो मर्यादायै । ततस्ते युगलिन एकीभूय परमेश्वरं महतः स्थलस्योपरि उपवेश्य नलिनीपत्राण्यादाय हस्तेषु भगवत्स्नानार्थं जलाशये गताः । इतः शक्रः स्वर्गादेत्य परमेश्वरं तादृशे रत्नसिंहासने | निवेश्य द्वापञ्चाशच्चन्दनरसेनोपलेप्याभरणाम्बराणि परिधाप्य प्रच्छन्नः स्थितः । इतस्ते युगलिनो गृहीतपद्मिनी
Jain Education International
For Private & Personal Use Only
श्रीआदीश्वर चरित्रम् ।
॥ ११ ॥
www.jainelibrary.org