________________
सन्दिग्धं कथं जल्पितं ? यावत् प्रभुरुत्तरं ददाति तावत् तस्मिन् दिग्देशे दुन्दुभिः श्रुतो भपेन । पुनः पृष्टं भगवनयं देवदुन्दुभिः कुत्र वाद्यमानोऽस्ति । प्रभुणोक्तं-प्रसन्नचन्द्रर्षेः केवलज्ञानमुत्पन्नं तेन तत्र देवैः केवलिमहोत्सवः । क्रियमाणोऽस्ति । श्रेणिको जगौ-भगवन् ! भवता सन्दिग्धं कथं प्रोक्तम् ? प्रभुणोक्तं यदुक्तं मया तत्सत्यमेव । मनःपरिणामो विषमो विद्यते जीवानाम् । यदा त्वया स ऋषिर्नतस्तस्य शुभपरिणाभोऽभूत्तदा । त्वदग्रतश्चलन्नादौ ।
सुमुखेन त्वत्सेवकेन स ऋषिर्नतः प्रोक्तं च धन्योऽसौ, इदृग्राज्यं मुक्त्वा व्रतं ललौ । एतच्छ्रुत्वा तस्य ऋषेस्तदा । ||शुभपरिणामोऽभूत् । ततः पृष्टे त्वत्सेवको दुर्मुख आगच्छन् ऋषि वीक्ष्य जगौ । अहोऽयं पाखण्डी व्रतं लात्वा | स्थितोऽस्ति । अस्य महत्पातकं लगति । यतोऽनेन बालपुत्रं राज्ये निवेश्य व्रतं गृहीतमस्य किं पुण्यं भविष्यति । अधुना चम्पेशदधिवाहनादिभूपैः शत्रुभिरस्य पुरी वेष्टिताऽस्ति । क्षणमात्रेणास्य पुत्रं हत्वा राज्यं गृहीयते तैः । इत्थं दुर्मुखोक्तिभिर्ध्यानाच्चलितः । तैः सह मनसा युद्ध चकार । यदा त्वया तस्य । गतिः पृष्टा तदोक्तं मया सप्तमनरकगतिस्तस्य । यदा द्वितीयवारं पृच्छा कृता त्वया तस्य युद्धं कुर्वतः || सर्वायुधानां समाप्तिरभूत् । सर्वे वैरिणो हताः पुनरेकस्तिष्ठति । ततस्तं रिपुं हन्तुं शिरस्केनेच्छन् प्रसन्नच-7
Jan Educat
For Private Personal use only
fww.jainelibrary.org