________________
॥ श्रीभरते-
श्वर वृत्तिः।
श्रीप्रसन्न द्रराजर्षिचरित्रम्।
॥१२१॥
कर्णतालचपलं देहं च रोगाकुलं, ज्ञात्वा भव्यजनाः सदा कुरुत भो धर्म महानिश्चलम् ॥१॥ इत्याकर्ण्य धर्मदेशनां प्रबुद्धः प्रसन्नचन्द्रभूपोऽसारसंसारतां विभावयन् गृहेऽभ्येत्य बालमप्यङ्गजं राज्ये निवेश्य प्रभुपार्श्वे चारित्रं पोतानाधिपो ललौ । विश्वाम्भोजाम्भोजिनीपतिना श्रीजिनेन सह पर्यटन क्रमाद्दशपूर्वधारी जज्ञे।जिनमापृच्छयैकाकी पर्वतशृङ्गगुहादिविषमस्थानेषु कायोत्सर्ग कर्मक्षयनिमित्तं करोतिस्म । अन्यदा राजगृहासन्नवनमार्गे कायोत्सर्गे प्रसन्नचन्द्रर्षिः परमात्मध्यानपरः एकाग्रचित्तस्तस्थौ । तदा श्रीवीरो वैभारगिरिपाचे समवासार्षीत् । श्रोणिकराजा जिनं नन्तुं चचाल। तं तादृशं यति ध्यानलीनचित्तं वीक्ष्य श्रेणिकभूपो नत्वा तस्य प्रशंसां कुर्वन्नग्रतोऽचालीत् । समवसरणे गत्वा जिनं त्रिःप्रदक्षिणीकृत्य यथास्थानमुपविष्टः । कृताञ्जलिः श्रेणिकः पप्रच्छ-मया मार्गे आगच्छता प्रसन्नचन्द्रराजर्षिनिकाग्रचिचो वन्दितः। स यद्यधुना कालं करोति तदा व गच्छति ? । स्वामी प्राह-सप्तमी नरकभुवं याति राजा दध्यौ-एवंविधस्य साधोरीदृशी गतिः कथमादिष्टा परमेश्वरेण । मया स्वामिप्रोक्तं सम्यङ् नावगतं पुनः पृच्छामीति ध्यात्वा पुनराचष्ट राजा-भगवन्नधुना म्रियते तदा स साधुः कां क्षितिं याति ? प्रभुः प्राह-[षष्ठी भुवमित्यादि ] सर्वार्थसिद्धिविमानं यावत् पृष्टोत्तरदाने प्रभुभूपयोर्जायमाने तं भावमबुद्दा श्रेणिको जगौ-भगवंस्त्वयैवं
ब
E
%
-
For Private Personal Use Only
hww.jainelibrary.org
Jain Educationa l