SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ IY केवलज्ञानमाप । तदा देवैरभ्येत्य यतिलिङ्ग ददे । देवविहितकनककमले निविश्य सोमचन्द्रप्रसन्नचन्द्रयोरिति धर्मो-91 पदेशं ददौ वल्कलचीरी । तथाहि-मोहभूतकुलाकान्ते, रागद्वेषविभीषिके । क्रोधाख्योत्तालवेताले, लोभविक्षो-al भराक्षसे ॥१॥प्रेतायतेन्द्रियग्रामे, कषायोद्धषितानले । मिथ्यात्वाख्यमहागृधे, मायागोमाययोषिति ॥ २॥ अभिमानमहाशले, मनोभवपिशाचिनि । जरारुगमृत्युजात्यादि-शाकिनीकुलसंकुले ॥ ३ ॥ संसारनामनि महाश्मशानेऽत्र महाभवे । कथं नियातीनश्चिन्ता, रमन्ते हन्तजन्तवः॥ ४ ॥ अस्माददूरे सर्वज्ञ-शासनं ब्रह्मपत्तनम् ।। निर्भयं यतिनिर्वाण-पुरशाखोपमं पुरम् ॥ ५: धर्म जिनवरप्रोक्तं, कुर्वाणा मानवाः सदा । लभन्ते परमं सौख्यं, सर्वकर्मक्षयात् क्षणात् ॥ ६ ॥ श्रुत्वेति धर्मसंबोधं, महोदययियासया । मुनिभूपावभूतां तो, जैनशासनवासनौ ॥॥ तदा श्रीवीरजिनः पोतनपुरे उद्याने नाम्ना मनोरमे समवासार्षीत् । तदा स वल्कलचीरी स्वयंबुद्धः केवली भ्रातृपितृ-10 युतः श्रीवीरं नन्तुं ययौ। ततो जिनोऽवग-भो केवलिन् ! त्वं केवल्यसि । त्वया मम शेषसाधूनामपि न प्रणामः कार्यः। ततः केवली केवलिसंसदि गतः । सोमचन्द्रर्षिः परमेश्वरेण स्थविरपार्श्वे क्रियां शिक्षितुं मुक्तः । तदा जिनेन धर्मदेशनेति कृता । आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं, विद्युद्दण्डतुलं धनं गिरिनदीकल्लोलवच्चञ्चलम् । स्नेहं कुन्नर-|| For Private Personal use only चिjainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy