________________
॥ श्रीभरतेश्वर वृप्तिः ॥
॥ १२० ॥
| देशं देहि तत्र गमनाय । ततो नृपो वल्कलचीरियुतो मुनेः पावनं स वनं ययौ । वनमध्ये गच्छन् वल्कलचीरी भ्रातुरग्रे इदं जगौ एते बिल्वेङ्गदीमुख्या बहवः पादपाः पुरा आरोपिताः फलान्येव ददते पथि गच्छतां, इत्यादि वार्ता कुर्वाणः प्रसन्नचन्द्रराजा तातपादाम्बुजं नत्वा मुमुदेतराम् । सोमचन्द्रमुनिस्तं गौरवयामासाङ्कारोपणात् । तदा | सोमचन्द्रऋषेरानन्दाश्रुवारिभिस्तौ पुत्रौ स्वकृतं पातकमलं प्रक्षालयामासतुः । ततो वल्कलचीरी गोपितानि | तापसोपकरणभाण्डादीनि प्रत्युपेक्षितुमभ्यागात् पर्णशालोटजान्तः । तापसभाण्डं तत्पूर्वमुक्तं रजोऽवगुण्ठितं स्वोत्त| रीयाञ्चलेन प्रत्युपेक्षितवान् वल्कलचीरी यत्नपूर्व, तत एवं दध्यौ -- मया प्रागपि एवंविधानि यतिपात्राणि कर्हिचित् प्रत्युपेक्षितानि । इत्यूहापोहतः पूर्वभवसम्बन्धिभवं ददर्श जातिस्मरणतः -- मया पूर्व श्रीगुरुपार्श्वे चारित्रं जिनसम्बन्धि गृहीतं शुद्धं पालितं परमल्पायुष्कत्वादेवलोकेऽगमं, पुनस्ततयुत्वा कर्मयोगाद्राजपुत्रो भूत्वा जिनधर्मे न प्रापम् । इदं राज्यं गजकर्णचपलं जीवितव्यं च । अन्तरायैरियत्कालं वञ्चितोऽस्मि मुधाऽहं, आसन्नमपि | श्रामण्यं न मयाऽबोधि तदा । असारोऽयं भवोऽगाधो, नानादुःखप्रदायकः । गजाश्व स्त्रीरमा मुख्यं वस्तु सर्वे विनश्व रम् ॥ १ ॥ इत्यादि असारसंसारस्वरूपं द्वादशभावनात्मकं ध्यायन् क्षणादेव क्षीणाशेषकर्मा वल्कलचीरी कुमारः
Jain Education International
For Private & Personal Use Only
श्रीप्रसन्नचंद्रराजर्षिचरित्रम् ।
॥ १२० ॥
www.jainelibrary.org