________________
मीशोगौरी, रसनाग्रे सरस्वती। हृदयेऽथ दया तस्या-वसन् वल्कलचीरिणः ॥ १॥ अन्याभिर्बह्वीभिः कन्याभिः। समं राज्ञा स कुमारः पाणिपीडनं कारितः, युवराजपदवीं ग्राहितश्च । ततः स्वस्य भूपस्यावरजोऽत्यन्तप्रीतयेऽभूत् ।। इतश्च सोमचन्द्रर्षिः कुमारमदृष्ट्वा निजमात्मानमश्रुप्रवाहैरसिञ्चत् । राज्ञा प्रसन्नचन्द्रेण वल्कलचीरिसम्बन्धज्ञापनात सोमचन्द्रराजर्षिनिःशोकश्चक्रे । ततः पारणकं चक्रे । प्रसन्नचन्द्रस्तेन भ्रात्रा समं गोष्ठी कुर्वन् गतमपि कालं न वेद । अथ द्वादशवर्षान्ते भर्तुरेकदा अङ्कादुत्तीर्य पुत्रोऽगादकं वल्कलचीरिणः । ततस्तं ललन्तं बालकं दृष्ट्वा वल्कलचीरी स्वस्यैव शैशवं सस्मार-अहमधमोऽस्मि, यतो जाते मयि माता प्रथमं मृता, वाईकत्वे मया यौवनं प्राप्तेन पिताऽपि|| त्यक्तः । ततः पितुः पालनर्णात्कथं मोक्ष्येऽहं धिग् धिग् मम कृत्रिमस्नेहत्वं अहं निष्ठरो मया प्राप्तसौख्येन कदाऽपि पितुः सारा न कृता । ततोऽहमधमोऽस्मि । यतः- इक्षुक्षेत्रं वंशजाली, कदलीविषपादपाः । फले जाते विनश्यन्ति.
दुष्पुत्रेण कुलं यथा ॥१॥ आस्तन्यपानाज्जननी पशूनां आदारलम्भावधि चाधमानाम् । आगेहकर्मावधि मध्य। माना-माजीवितात्तीर्थमिवोत्तमानाम् ॥ २॥” एवं ध्यात्वा चिरं वल्कलचीरी पितृमिलनोत्सुकः प्रसन्नचन्द्रपार्श्वे ।
जगौ-भ्रातरहमेकदाऽपि पितः पादनत्यर्थ न गतः अतः परं मया तातपादनतिं विना भोजनं न कर्तव्यं तेन ममा
in Eduen
For Private Personal use only
Www.jainelibrary.org