________________
॥ श्रीभरते- श्वर वृत्तिः॥ ॥११९॥
*
*
न प्राप्तः । ततो राजा शोकातुरोऽखिलं राजकार्य विसृज्य सशल्यस्तस्थौ । इतः कश्चिद्वेश्यागृहे नवीनं विवाह श्रीप्रसन्नचजायमानं श्रुत्वा राज्ञोऽग्रे प्राह । राजाऽपि ता एवं पूर्वप्रेषिता वेश्याः प्रेष्य स्वभ्रातुरेव विवाहं जायमानं जज्ञौ । चरित्रम् ततो राज्ञा वेश्या तत्राकारिता प्रोक्तं च रे मद्भातुः कथं त्वया स्वपुत्री दत्ता । वेश्या जगौ-सदनं स्वयमाप्ताय, कुमारमनये मया । सुताऽद्य दयितामदायि, देव ! दैवज्ञवार्तया ॥१॥ तदर्थ मत्कृतः सर्वोऽपराधो नरेश्वर ! क्षम्यतां क्रियेतां मय्युपरि प्रसन्नविलोचने । ततो राजा तत्र खं सहोदरं प्रियासखं दृष्ट्वा मन्त्रीश्वरान् प्रति जगौ किं करिष्यते तेन भ्रात्रा नीचकुलजा कन्याङ्गीकृता । मन्त्रिणो जगदुः-न दोषोऽत्र नीचकुलादपि भूपाः कन्यां वृण्वते । यतः-"विषादप्यमृतं ग्राह्य-ममेध्यादपि काञ्चनम् । अधमादुत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥१॥ ततः स्वपट्टहस्तिसमारूढं स्वसहोदरं सप्रियं कृत्वा महता महेन भूरिदानं ददानो राजा स्वसौधमानिनाय । तत आवासः तस्य स्थित्यै अर्पितः, श्रीर्बह्वी अर्पिता । सहोदरेण सममेव राजा भुङ्क्ते । यतः-" तत्र विज्ञजनादेषः, संप्रदायप्रदायकात् । राज्ञाऽमितैर्दिनैश्चक्रे, व्यवहारबृहस्पतिः ॥ १॥ लिपिसंख्यानयादक्षः, पदवाक्यप्रमोदितः । स कला-6 ॥ ११९ ॥ कुशलो जज्ञे. प्राज्ञो राज्ञोऽभियोगतः ॥२॥ अन्यदा कस्मिन्नन्याये कृते बद्धं रथिनं कुमारो मोचयामास । भ्रुवो
*
Join Education International
For Private
Personel Use Only
www.jainelibrary.org