________________
Jain Education
| जित्वा तस्य वित्तं लात्वा क्रमात्पोतनाश्रममगात् । मुनिनोक्तं-- कास्ति पोतनाश्रमः ? । रथी जगौ -- अयं पोतनाश्रमः अत्र सुखं तिष्ठ । ततो रथी स्वगृहं प्रत्यचलत् । ततः प्रत्यहं प्रतिगृहं गच्छन् मुनिः स्त्रीपुंसयोर्दर्शनेनाभिवादयामीति जल्पन् वेश्यापाटके गतः । तत्र कामपि वेश्यां वीक्ष्य ताताभिवादयामीति जगौ । ततो वेश्यया मुग्धस्वभावोऽयं मुनिर्महत्पुण्यमिदं, अयं मुनिर्यदि मदीयाङ्गस्पर्श करोति, तदाऽहं कृतार्था भविष्यामीति ध्यात्वा गृहमध्ये नीत्वा स्वङ्गस्पर्शादिस्नानं चक्रे । वेश्या तु बहुपुण्यलाभोत्पादमात्मनि मानयन्ती तत्कृतनखक्षतादि सहते । ततो वेश्यया | सुकुमालशरीरोऽयं मुनिरिति कृत्वाऽऽत्मपुत्र्या समं पाणिपीडनं कारितम् । मुनिर्दध्यौ । ईदृशमातिथ्यं कुत्रापि न दृष्टम् । तदा तस्या गृहे विवाहतूर्याणि वाद्यन्ते, वल्कलचीरी तु तस्याः करस्पर्श परमसुखमयं मेने । इतः पूर्वनियुक्ताः पण्यस्त्रियोऽभ्येत्य तस्मिन्नेवाहनि प्रसन्नचन्द्र भूपाग्रे प्रोचुः--स कुमारोऽस्माभिर्लोभयित्वा दूरतो नीतो यावत्तावत्सोमचन्द्रर्षिरागात् । ततो वयं शापभयान्नष्टाः । सोऽपि वल्कलचीर्यपि नष्टः । ततोऽस्माभिः स न | प्राप्तः । किं करिष्यतेऽग्रत इति ज्ञायते पोतनाश्रमफलानि दर्शितानि सन्ति तेनात्रागमिष्यते च । राजा | खिन्नो दध्यौ - मया वर्ये न कृतं तस्य तातस्य वियोगोऽभव, ममापि न मीलितः, किं क्रियते हस्तो दग्धः पृथुकोऽपि
For Private & Personal Use Only
919-09-09 S
www.jainelibrary.org