________________
मायान्तं बिल्वामलकादिफलभारिणं वीक्ष्य वेश्याः सन्मुखाः समागताः। ता वेश्या दृष्ट्वा तापसा अमी कुतोऽप्यागता इति ध्यायन वल्कलचीरी ताताभिवादये इति प्राह-के यूयं ? काश्रमो वः? कयास्यथ ? । ताभिरुक्तं वयं । मुनयो वीतरागाः परंपुमर्थानुरक्ताः पोतनाश्रमतस्त्वां वीक्षितुमत्रागताः तव भक्ति कतुं च । यतः-" सपर्ययाऽतिथीनां हि, तपोवृद्धिस्तपस्विनाम् । विहिता जायते स्वर्गा-पवर्गसुखदायिनी ॥ १॥” मुनिः प्राह-वनादेतानि फलानि । मयाऽऽनीतानि यूयं गृह्णीध्वं बहूनि पुनरानेष्याम्यहं तानि कृतार्थोहमद्य भवामि युष्मदानविश्राणनात् । ता वेश्याः प्रोचुः-त्वदानीतेषु ईदृशेषु फलेषु विरसेषु अस्माकमिच्छा न स्यात् । पोतनाश्रमजानां फलानां विषये | Ng वाञ्छा भवति नः । तेनोक्तं-पोतनाश्रमजानि फलानि कीदृशानि भवन्ति । ताभिः सितोपलानिष्पन्नमादकादिखाद्यानि वर्याणि दर्शितानि । तानि खाद्यान्यास्वाद्य वल्कलचीरी बिल्वादिफलेषूहिनोऽभूत् । ततस्तासामङ्गस्पर्शमासाद्य वल्कलचीरी जगौ-अहो भवतामने ईदृशं मार्दवं सुखदं कुतोऽजनि । युष्माकं हृदये च इदं वेदिकारमणीयं कुतोऽभूत् । ता मुनि प्रोचुः-ये पोतनाश्रमे वने इंदृशानि फलान्यारवादयन्ति, तेषामीदृशं सुकुमालं सुखदं वेदिकाद्वयं जायते। ततस्तेन तस्मिन् (तयोः) वेदिकादयस्थफलयोर्यावद्धस्तो दत्तस्तावत्तस्यात्यन्तसुखमभूत् । प्रोक्तं च तेन
JainEducati
For Private
Personel Use Only