________________
॥ श्रीमरतेश्वर वृत्तिः॥
श्रीमदयाहुचारत्रम्। श्रीदशार्णभद्रभूफचरित्रम्।
॥११४॥
अभिमानं विमुञ्चन्ति, ये जना ऋद्धिसंभवम् । त एव वृण्वते मुक्ति, दशार्णभद्रभूपवत् ॥ १॥
तथाहि--अत्रैव भरते दशार्णपुरपत्तने दशार्णभद्रभूपो भुवं शशास | " पार्थिवानामलङ्कारः, प्रजानामेवपालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः ॥ १॥ भपस्त्रिकालं जिनपूजां चकार । यतः-"जिनस्य पूजनं || हन्ति, प्रातः पापं निशाभवम् । आजन्म विहितं मध्ये सप्तजन्मकृतं निशि ॥१॥ अन्यदा दशार्णपुरोपान्तस्थदशार्णगिरौ श्रीवीरः सार्वः समवससार । देवैः स्वर्णरत्नरजतवप्रमयं योजनमितं कपिशीर्षश्रेणीरोचिष्णु चतुःप्रतोलीचारु ||| समवसरणं कृतं । तत्रोपविष्टः प्रभुश्चतुर्मुखश्चतुस्त्रिंशदतिशयशाली चतुष्षष्ठीन्द्रादिद्वादशपर्षदामग्रे धर्मोपदेशं दत्ते । तदोद्यानपालो भूपाने श्रीवीरागमं ज्ञापयामास । राजा पारितोषिकं ददौ । तत उत्थाय सप्ताष्टपदानि संमुखं गत्वा । प्रभुं स्तौति । यथा-जगद्वितीर्णकल्याण ! कल्याणकमलालय ! । जय त्वं जिन सर्वज्ञ ! सर्वज्ञततिसंयुत! ॥१॥ कलाकलामलज्ञानो-दय ! दयोदधे ! प्रभो!। तार! तारय मां धूत-मान मानभवाम्बुधे! ॥ २ ॥ स्मारं स्मारं गुणग्राम, कारं कारं तव स्तुतिम् । दर्श दर्श मुखं तेऽद्या--भूवं भूवंद्य ! निस्तमाः ॥ ३॥ स्तुवेति दध्यौ नृपः-प्रातर्विस्तरादहं प्रभु वन्दिष्ये । यथा पुरा केनापि न वन्दितः भूपो लोकानां वीरागमनज्ञा
॥११४।।
Edmon
For Private Personel Use Only
www.jainelibrary.org