SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पनाय पुरे पटहं दापयामास । पुरं पताकातोरणवन्दनमालादिरम्यं दन्दह्यमानागुरुकर्पूरव्याप्तनभोमण्डलं चाकारयत् । प्रातः सर्वशृङ्गारसारः सिन्धुरारूढो राजा सज्जीबभूव । तत्राष्टादशसहस्रं गजाः, चतुरशीतिलक्षाणि । वाजिनः, २१ सहस्रं रथाः, ९१ कोटि पत्तयः, १६ सहस्र ध्वजाः, मेघाडम्बरछत्राणि पञ्चशतानि, ६९००० स्रीकर्यः, ५.. राज्यः सुखासनारूढाश्चेलुः । सामन्तसचिवादयोऽपि सशृङ्गाराश्च । स्थाने स्थाने गीतनत्यादीनि कार्यन्ते । लोका अपि स्वस्वर्द्धिमानशृङ्गाराश्वेलुः, राजापीहर परिवारशाली याचकेभ्यो रूप्यस्वर्णदुकुलादि दानं ददानः पुष्पप्रकरशोभिराजपथे गर्वाज्जगदपि तृणं मन्यमानः छत्रशाली प्रभुं नन्तुं चचाल । दशार्णाद्रिसमीपे । ययौ । ततो यानानि संस्थाप्य तत्र पञ्चाभिगमपूर्व प्रभु प्रदक्षिणीकृत्य यथोचितस्थानमुपाविशत् राजा । तदा हृष्टो । राजा दध्यौ-यथा सर्वर्या प्रभुर्मया नेमे, तथा न केनापीन्द्रादिना चक्रिणा वा वन्दितो भावी । तदा दशार्णभद्रस्य । गर्व सौधर्मेन्द्रोऽवधेत्विा दध्यौ अहो उत्तमोऽयं भूप एवं गर्व धत्ते न तद्वरं, यतो लोके गर्वः श्रेष्ठो न । यतः उत्सर्पयन् दोषशाखा, गुणमूलान्यधो नयन् । उन्मूलनीयो मानदु-स्तन्मार्दवसुहृत्प्लवैः ॥ १॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव, प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्तिकैरविणीं मतङ्गज इव | । Jain Education For Private Personal use only INITainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy