________________
॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ ११३ ॥
Jain Education
| विभवोरूपमन्वयः । शौर्य पाण्डित्यमित्येत - दमद्यं मद्यकारणम् ॥ १ ॥ " अत्रान्तरे केनचिच्छ्राद्धेनोक्तं वराहाग्रे । युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां भान्ति स्म संतमसमप्यगमन्निशाऽसौ । सूर्याशुदीप्रदशदिग् दिवसोऽधुनाऽयं, | आत्यत्र नेन्दुरपि कीटसमः किमु त्वम् ॥ १ ॥ इति वदन्नेव नष्टः स श्राद्धः । ततो बाढं रुष्टस्तस्मिन् वराहो निन्दितो लोकैर्दुनोऽभूत् । एते गुरवो ज्ञानिन एव । एकदा राज्ञा पृष्टौ वराहमिहरश्रीभद्रबाहुगुरू । अत्राद्य किं | भविष्यति । वराहेणोक्तं अद्य पाश्चात्यप्रहरे अमुकस्थाने अकस्मात् जलदे वर्षति मण्डलमध्ये द्विपञ्चाशत्पलमितो | | मत्स्यः पतिष्यति । गुरुणोक्तं एकपञ्चाशत् सार्द्धपलमितो मण्डलात्तस्माद्बहिः पूर्वदिशि च । ततः सन्ध्यायाम| कस्मात् मेघे वर्षति गुरूक्तप्रमाणो मत्स्यो गुरुक्तस्थाने पतितः । ततो गुरवो मानिता वराहोऽपमानितः । ततो | जिनधर्मं प्रपेदे राजा । वराहोऽपमानं गमितो भागवती दीक्षां लात्वा अज्ञानकष्टानि कुर्वाणो गुरुषु द्वेषं वहन् मृतः । जैनधर्मद्वेषी व्यन्तरोऽभूत् । साधुषु न प्रबभूव द्वेषवानपि । तपो हि वज्रपञ्जरप्रायं मुनीनां, अतः श्राद्धानुपद्रोतुं लग्नो व्यन्तरः गृहे गृहे रोगानुत्पादयामास । श्रावकैः स्वदुःखं रोगोत्पत्तिहेतुं गुरुणामग्रे विज्ञप्तं - भगवन् ! त्वयि जगत्पूज्ये सति कथं सङ्घपीडा विद्यते । गुरुभिरभाणि मा भैष्ट सोऽपि वराहो मृत्वा व्यन्तरी
For Private & Personal Use Only
919-19-313-33
श्रीभद्रबाहु
मुनिशक्र-: चरित्रम् ।
॥ ११३ ॥
Talww.jainelibrary.org