________________
यज्ज्ञातं तत्त्वया वाच्यम् । ततो गुरुणा ज्ञापितं सप्तमदिने निशीथे बिलाडिकामुखान्मरणं पुत्रस्यास्य भावि, तस्मिन् मृते शोकविसर्जनायागमिष्यते मया । [राज्ञा ज्ञापितं कथमेतद्भवद्भिातम् ।] ततोराज्ञा सर्वत्र ग्राममध्यात |बिलाडिकाः पुरावहिः कर्षिताः । सप्तमे दिने निशीथे धात्री स्तन्यं पाययितुं द्वारशाखाग्रे उपविष्टा । इतोऽकस्मादगला बालस्य मस्तकोपरि पतिता मृतश्च सः । ततो लोकैरुक्तं.-वराहोऽयमज्ञानी गुरवो ज्ञानिन एव । राज्ञा धिक्कारः कृतो वराहस्य । ततः श्राद्धशतयुता गुरवः शोकापनोदाय राजपाचें गताः । शोकापनोदसूक्तानि कथितानि ।
। राज्ञोक्तं भवता बालस्य सप्तदिनायः कथं ज्ञातं ? बिलाडिकाया मखान्मरणं नाभत् किं कारणं तत्र ? । गुरुणोक्तं अर्गलामुखे बिलाडिकारूपमस्ति । अस्माभिर्यदा पुत्रो भवतो जातः सा एव वेला KE सुक्ष्मबुद्धया गृहीता, तेन ज्ञातमायुः । ततो वराहः खिन्नो यावत्पुस्तकानि जले क्षेप्तुं लमः, तावहारितो
भद्रबाहुना । शास्त्रेषु सर्वज्ञप्रणीतेषु सम्यग् प्रोक्तमस्ति. परं ज्ञातृत्वं दुर्लभं विद्यते । यतः “ अमंत्रमक्षरं नास्ति, नास्ति मलमनौषधम् । अनाथा पृथिवी नास्ति, आम्नायाः खलु दुर्लभाः ॥१॥' अत्र ज्ञातृत्वे कारणं अस्य वराहस्य विद्यागों विद्यते, यतो गर्व एवाज्ञानं नान्यत् । यतः-" प्रभुप्रसादस्तारुण्यं,
Jain Educationa l
For Private & Personal Use Only
www.jainelibrary.org