________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ ११२ ॥
Jain Education
गौरवा • ॥ १ ॥ श्वेताम्बरान्निन्दति वराहमिहिरः सदा । एते श्वेताम्बराः काका इव कुत्सितं शब्दं कुर्वन्ति व्याख्यानछलात् । तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेदे । धिगस्माकं जीवितं येनास्मासु सत्सु एवं गुरूणामवहीलनामेते कुर्वते, अहो महत्कष्टं अयं वराहमिहरः कलायान् नृपमान्योऽस्ति गुरून्निन्दति किं क्रियते । | भवतु तथापि गुरून् विज्ञपयामः । ततः आकारिताः श्रीभद्रगुरवः । कारितस्तेषां प्रवेशमहोत्सवः, स्थापिता गुरव | उपाश्रये । व्याख्याने अनेके महेभ्या राजपुत्राश्चायान्ति । भद्रबाहुमागतं श्रुत्वा वराहो बढं जगौ, तथापि तेभ्यो नापकर्तुमशकदसौ, अत्रान्तरे भूपगृहे पुत्रो जातः । राजा वराहपार्श्वज्जन्मपत्रिकां कारितवान् । शतवर्षायुरसौ | बाला भविष्यति तेनोक्तमिति । दानानि दीयन्ते । लोका वर्धापनिक पूर्व तत्रायान्ति राजगृहे । वराहमिहिरोऽतीव | || मानितो भूरिधनदानात् । गुरूणामवहीलनार्थं राज्ञोऽग्रे वराहेणोक्तं, - सर्वे जना अत्र युष्मद्गृहे समायाताः । एक | आचार्यो भद्रबहुरागतोऽस्ति सोऽत्र नायातः, तस्य देशत्यागरूपो दण्ड एव दीयते । ततो राज्ञा मन्त्रिपार्श्वाज्ञापितं - | त्वमत्र कथं नागाः । भद्रबाहुना ज्ञापितं - द्वितीयवारं क आगमिष्यति । राज्ञा ज्ञापितं - भो भद्रबाहो ! एवं त्वया | कथमुच्यते । गुरुणोक्तं ज्ञापितं यदि सत्यमग्रे प्रोच्यते । तदा राज्ञोऽसमाधिरभूत् । राज्ञा ज्ञापितं तव न भयं
For Private & Personal Use Only
श्री भद्रबाहुमुनिशकचरित्रम् |
॥ ११२ ॥
Tawww.jainelibrary.org