________________
स इति भाषितः वत्स विद्वानसि, क्रियावानसि, तत्वज्ञोऽसि, परं सगर्वोऽसि, सगर्वस्य सूरिपदं न दद्मः । एतदुक्तं । तस्य न रुचितं, गुरुवचनं वर्यमपि कस्यापि विषं भवति । अभव्यस्य सुकुमालमपि कर्णशूलं भवति । ततो व्रतं तत्याज वराहः, मिथ्यात्वं गतः, पुनर्द्विजवेषं जग्राह, वराहसंहितादि नवीनं शास्त्रं रचयामास । महाज्योतिष्को बभूव । लोकेषु स्वां ख्यातिमिति प्रथयामास । अहं बाल्ये लग्नमभ्यस्यामिस्म । तद्विचारे च सदा तिष्ठामिस्म ।। एकदाऽहं तु प्रतिष्ठानपुराबहिर्लनं मंडयामिस्म । तल्लग्नमस्पृष्ट्वा स्वस्थानमागम, सुप्तः सन् गृहे लग्नमस्पृष्टं स्मरामि ।। स्म । ततो लग्नं माष्टुं तत्रोपरि चलितः । यावत्तत्र यामि तावल्लग्मस्थाने पञ्चास्यमपश्यं, तथापि निर्भयीभूय लग्नभक्त्या सिंहस्याधो हस्तं क्षिप्त्वा, यावल्लग्नमपसारयामि तावत्सूर्यः प्रत्यक्षीभूयावग-वत्स ! तव दृढया लमग्रहभन्या बाढं तुष्टोऽस्मि, वरं वृणीष्व । तदा मयोक्तं-यदि त्वं प्रसन्नोऽसि तदा मां त्वं खविमाने नय सर्व ज्योतिश्चक्र दर्य । ततोऽहं रविणा स्वविमाने स्थापितः सर्व ज्योतिश्चक्रं दर्शितं सूर्येण चारमानादि प्रोक्तं, ततः । कृतकृत्योऽहं सूर्यमापृच्छय विश्वोपकाराय भूमौ समागाम् । ततो लोकोपकारायाहं भ्रमन्नस्मि । मम वराहमिहिर इति नाम दत्तं रविणा, लोके परां पूजां प्रापमहम् । ततः प्रतिष्ठानपुरे जितशत्रभपेन स्वपुरोहितः कृतः यतः
Jain Education
For Private & Personel Use Only
ww.jainelibrary.org