SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १११ ॥ Jain Education | भद्राऽपि क्रमात् प्राप्तवैराग्या श्रीवीर जिनपार्श्वे संयमं गृहीत्वा तपस्तप्त्वा च स्वर्गे गता । ततश्युत्वा मुक्तिं यास्यति । ॥ इति शालिभद्रकथा समाप्ता ॥ २२ ॥ कुर्वाणो मानवो नित्यं, जिनेन्द्रशासनोन्नतिम् । भद्रबाहुगणाधीश, इवाप्नोति वृषं बहुम् ॥ १ ॥ तथाहि - दक्षिणदिशि प्रतिष्ठानपुरे भद्रबाहुबराहाह्रौ द्वौ द्विजौ सहोदरौ निर्धनौ वसतः स्म । तत्र श्रीयशो भद्रसूरयो विहरन्तः समाजग्मुः । तत्र भद्रबाहुवराहौ धर्मे श्रोतुं तत्रायातः । धर्मोपदेशोऽत्र भोगाभङ्कवृत्तयो• ॥ १ ॥ इत्यादि धर्मोपदेशं श्रुत्वा द्वौ सहोदरौ स्वगृहं गत्वा मन्त्रयेते स्म गृहे तु श्रीस्तादृशी नास्ति मनुष्य जन्म सफलीभवति यया [[सा तु नास्ति ] तेन संयमो गृह्यते । इत्यादि विमृश्य द्वावपि बान्धवौ प्रवत्रजतुः । क्रमाद्भद्रबाहुचतुर्दशपूर्वी बभूव । षट्त्रिंशत्सूरिगुणवान् दशवैकालिक १ उत्तराध्ययन २ दशाश्रुतस्कन्ध ३ कल्प ४ व्यवहार ५ आवश्यक ६ सूर्यप्रज्ञप्ति ७ सूत्रकृत ८ आचाराङ्ग ९ ऋषिभाषितादि दश इति ग्रन्थानां नियुक्तिकर्ता, भाद्रबाह्रीं संहितां व्यधाच्च । तदा आर्यसंभूत| विजयोऽपि चतुर्दशपूर्वधरो वर्तते । श्रीयशोभद्रसूरयः स्वर्गे ययुः । भद्रबाहुसंभूतिविजयौ स्नेहलौ मिथो विहरतः स्म । वराहो विद्वानभूत् केवलं गर्वपर्वताधिरूढोऽभूत्, सूरिपदं याचते भद्रबाहुसहोदरपार्श्वात् । भद्रबाहुना For Private & Personal Use Only श्री शालिम| द्रमुनीश्वरचरित्रम् | श्रीभद्रबाहुगणाधिप चरित्रम् । ॥ १११ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy