SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jain Education-In इति प्रफुलचित्तः स्थालमुत्पाट्य हृष्टहृत् ददौ पायसं तस्मै संगमः । साधुरपि शुद्धमन्नं गृहीत्वा धन्यंमन्यो निजा| श्रये गतः । भुक्तमनेन पायसं बुभुक्षयेति समायातया मात्रा पुनः परिवेषितं पायसं पुत्राय । तदा संगमो बुभुक्षयाऽऽ| कण्ठं भुक्त्वा रजन्यामकस्मादजीर्णतया मृत्वा गोभद्रश्रेष्ठिपुत्रो भवानभूत् । तयापूर्वभवसम्बन्धिन्या मात्राद्य दत्तं | दधि तुभ्यम् । ततोऽसारं संसारं मत्वा कृतपारणकौ तौ धन्यशालिभद्रौ वीरमापृच्छ्य वैभारगिरौ गत्वा शुद्धे भूतले | कृतपादपोपगमानशनौ तस्थतुः । तदा समेत्य भद्रा तीर्थेशं नत्वाऽपृच्छत् - शालिभद्रघन्यौ कथं भिक्षार्थं नायातौ मद्गृहेऽद्य । तद्वृत्ते प्रभुणोक्ते भद्रा दुःखिता वैभारगिरिं गत्वाऽवग्श्रेणिकश्च भद्रा तौ तथास्थितौ वीक्ष्य तथा | भद्रा रुरोद यथाऽन्यानपि बहून् रोदयामास, मया मन्दभाग्येन गृहागतौ न ज्ञातौ, एकवारं उत्तरं दत्तम् । श्रेणिकोऽत्रम् - भो शालिभद्र ! एकदा मात्रे स्वं मुखं दर्शय, मातृतः परं तीर्थ न विद्यते । ततो राजा भद्रां प्रति प्राह- भद्रे ! त्वं धन्याऽसि, यस्याः पुत्र इदृगस्ति । इत्यादि कथयित्वा भूपेन प्रबोधिता भद्रा स्ववधूयुता गृहमगात् । श्रेणिको निजं गृहं गतः । ततः शुद्धध्यानारूढौ शालिभद्रघन्यौ सर्वार्थसिद्धाख्ये विमाने जग्मतुः । For Private & Personal Use Only laww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy