________________
जितं श्रुत्वा शालिभद्रोऽपि श्रीवीरपर्यन्ते संयम जग्राह । स्वामिनैव समं शश्वहिहरन्तौ यतीश्वरौ । धन्यश्च शालिभद्रश्च, तौ संजातौ बहुश्रुतौ ॥१॥ एकद्वित्रिचतुर्मासो-पवासादितपःपरौ. नत्वा वीरं पुरादेत्य. शुश्रवतः धर्म-|| देशनाम् ॥२॥ तथाहि-माणुस्स खित्तजाई कुलरूवारुग्गमाउयं बुद्धी । सवणग्गहाण सद्धा, संजमो लोगंमि दुल्लहा होइ ॥ १ ॥ अन्यदा मासक्षपणपारणे धन्यशालिभद्रौ भिक्षार्थ गच्छन्तौ वीरं नत्वा । जगदतुः-स्वामिन् ! अद्य कस्या हस्ते आवयोः पारणं भविष्यति । प्रभुः प्राह-मातुर्हस्तेन ते शालिभद्रार्य ! यतिनायक !। भविष्यति द्रुतं पार-णकं धन्ययुतस्य ते ॥ १ ॥ इच्छामीति गदन् शालि-भद्रो । धन्यसमन्वितः । भिक्षार्थ वीरमानम्य, चचाल नगरान्तरे ॥ २ ॥ भद्रागेहद्वारि क्षामताधारिविग्रहौ । धन्यशालिभद्रसाधू विहर्तुमदृष्टपूर्वाविवागतौ तया भद्रयापि नोपलक्षितौ । श्रीवीरं शालिभद्रं धन्यमद्य वन्दिष्ये । इति ध्यानपरा भद्रा स्वं पुत्रमपि शालिभद्रमायान्तं नाबुद्ध । ततो यती तौ क्षणमात्रं प्रतीक्ष्य तस्माद्गृहानिरीयतुः । पुरीप्रतोल्यां तौ समायातौ । इतो दधिविक्रेत्री काऽपि वृद्धा स्त्री पुरीमध्ये समायान्ती उत्प्रस्रविणी जज्ञे शालिभद्रनिभालनात् । हृष्टा प्रीतिपरा शालिभद्राय हृद्यं दधि यथेष्टं वृद्धा प्रादात् । ततोऽभ्येत्य श्रीवीरचरणा
Jain Educati
onal
For Private Personel Use Only
www.jainelibrary.org
IM