SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीशालिकर ॥ स्नपयन्ती नेत्राश्रु मुमोच । स्कन्धोपरि नेत्रांभः पतितं मत्वा धन्योऽवग-किं प्रिये रोदिषि ? । प्रिया प्राह-मम |.Cir श्वर वृत्तिः॥ भ्राता शालिभद्रो व्रतार्थी दिन प्रति एका एका पत्नी मुञ्चन्नस्ति, तेन ममाश्रुपातोऽभूद् दृग्भ्याम् धन्योऽवग्-ते । ॥१०९॥ बन्धुहीनसत्त्वोऽस्ति । प्रियाऽऽचष्ट-यदि ते शक्तिरास्ति तदा किं त्वया न त्यज्यन्ते प्रियाः । इति मर्मवचः श्रुत्वा धन्योऽवग्-अतः परं त्वया न सङ्गमो मम कर्तव्यः । तादृशं दीक्षाग्रहणोत्सुकं मनो ज्ञात्वा ताः खिन्नाः पत्न्यः सर्वाः पतिं प्रति प्रोचुः-एषा पत्नी मुग्धैवं जजल्प । नाथ ! नर्मोक्तिभिः क्रियमाणाभिरेवं तव कर्तुं न युज्यते । ततः शालिभद्रभगिनी प्राह-स्वामिन् ! यन्मया मौग्ध्यात् प्रोक्तं तत् क्षम्यतां ममापराधस्त्वया, अतः परं मया । मनागपि न करिष्यतेऽपराधः अस्मादृशामुपरि कृपा एव क्रियते, उत्तमानामेवं कर्तुं न युज्यते, यदि त्वया संयमो गृहीष्यते तर्हि त्वामेवानुपतिष्यामः, पतिः स्त्रीणामेव दुस्त्यजः । इति ता ब्रुवतीर्घन्यो धन्यंमन्योऽन्वमन्यत ॥१॥ ततो धन्य उत्थाय शालिभद्रोपान्ते गत्वाऽवग-भो शालिभद्र ! किमेवं कातरः सन्नेकैकां स्त्रियं त्यजसि, मया तु सर्वा अपि स्त्रियः समकालं त्यक्ताः प्रव्रज्याऽऽवाभ्यां गृहीष्यते । इतः श्रीवीरो वैभारगिरौ समवासार्षीत् । यावच्छालिभद्रः सर्वाः प्रियारत्यक्ष्यति तावद् धन्यो दानं दत्त्वा सादरोऽपि श्रीवीरपादाब्जे संयम जग्राह । धन्यं प्रव । JainEducation T ime For Private Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy