SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ इतः श्रीधर्मघोषगुरुमागतं श्रुत्वा शालिभद्रस्तत्रागत्य विनयपूर्व ननाम । ततो गुरुभिरिति धर्मोपदेशो ददे । “गेहं। जर्जरमाखुभिः कृतबिलं चेलं च युकालयं, शय्या मत्कुणसंकुला वपुषि रुग् रूक्षासनं भोजनम् । वृत्तिरिवहादिका परुषवाक् जाता कुरूपा वधू-र्यस्येत्थं ननु सोऽपि नोज्झति गृहासङ्गं हहा मूढधीः ॥ १॥ अज्जं कल्लं परं|| परारं. परिसा चितंति अत्थसंपत्ति । अंजलिगयंव तोयं, गलंति जियं न विच्छति ॥ २॥ ये जनाः संयम शुद्धं ॥ पालयन्ति सदाऽऽदरात् । तेषां करतले स्वर्गा-पवर्गश्रीः प्रजायते॥३॥ इत्यादि श्रुत्वा शालिभद्रो जगौ-मातरमापृच्छय संयमश्रियं गृहीष्यामि श्रीप्रभुपादपार्श्वे । ततः शालिभद्रो वैराग्यवासिताशयो गुरुं नत्वा गृहे ययौ ।। मातृपार्श्वे शालिभद्रः कृताञ्जलिर्जगौ-मया श्रीधर्मघोषसूरिपार्श्वे धर्मः श्रुतः तेनाऽहं तत्पाघे संयमं गृहीष्यामि, । ममादेशं देहि ।भद्राऽवग्-त्वदीयं शरीरं सुकुमालमस्ति व्रतचर्या दुष्करा, तेन तव देहः कष्टं न सहिष्यते ॥ "शालिभद्रो । जगौ मातः, पुमांसः सुखमांसलाः । व्रतकष्टासहा नूनं, जायन्ते कातराः किल ॥१॥ गतसारेऽत्र संसारे, सुखभ्रान्तिः । शरीरिणाम् ।लालापानमिवाङ्गठे, बालानां स्तन्यविभ्रमः॥२॥" इत्यादि युक्त्या मातरं पर्यवसाय्य प्रतिदिनमेकैकां पत्नी प्रबोध्य त्यजन् सप्तक्षेत्र्यां स्वां श्रियं शालिभद्रो वपतिस्म । इतः शालिभद्रस्य कनिष्ठा भगिनी धन्यस्य पत्युः शिरः en Educator For Private Personal Use Only Trww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy