SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्ति ॥१०८॥ यादकार्षीत् । आलिङ्गय भूभुजाङ्गेन शालिभद्रमुत्सङ्गेकृतः । अमिस्पर्शान्नवनीतं यथा गलति, तथा राजी स्वाङ्गस्प- श्रीशालिलीगलबिन्दुतनुं शालिभद्रं वीक्ष्य भूपोऽवादीत, भो भद्रे ! कथमेष ते पुत्र एवं गलबिन्दुशरीरो दृश्यते । भद्राऽ- मद्रमहा वग्-अस्य पिता गृहीतसंयमो मृत्वा देवलोके गतः, तत्रस्थः स्नेहान्मनोऽभीष्टं वस्तु पुत्राय मह्यं च पूरयति । तस्मादयं ।। मनुष्योचितै र्गन्धवासस्रगादिभियते पुत्रो मदीयोऽयं तन्मुच्यतामयं सुतः, ततो राज्ञा मुक्तः शालिभद्रः सप्तमभूमिभुवं गतो विमुक्तकर्मा जीव इव मुक्तिम् । ततो भद्रया दिव्यस्नानपानीयैः स्नानं कार्यमाणभूपाङ्गलीयकं स्नानवाप्यां पपाताकस्मात् । ततः कृतस्नानो राजाइतस्ततो विलोकयन् विलक्षोऽभूद्यावत्तावद्भद्राऽऽदेशाहासी कूपमध्ये पतितां मुद्रिका दर्श-d यामास । ततो राजा स्वमुद्रामन्या बह्वीर्मुद्रा विलोक्य दध्यौ। मम मुद्रायाः पूर्वं च स्नानवापीपतितमुद्रिकाया अङ्गाररत्नयोरिव सर्षपस्वर्णाचलयोरिवान्तरं विद्यते । राजा जगौ-केषामेतानि मुद्रिकादीनि दृश्यन्ते ? । दासी आचष्टशालिभद्रस्य तार्यानां चाभरणानि दिनं दिनं प्रत्युत्तीर्यन्ते यानि तानि अत्र क्षिप्यन्ते, गोभद्रदेवाप्र्पितानि नवानि । भूषणादीनि परिधत्ते शालिभद्रादिपरिवारसर्वः। ततो विस्मितो भूपः सपरिवारो दिव्यभोजनेन भद्रया भोजितोविभूषणैर्विभूषितश्च दध्यौ-क्व मम सुखं कास्य सुखम् । ततः शालिभद्रं भोगसुखं स्मरन् भपः स्वावासमाससाद । ॥१०८॥ Jain Education th ona For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy