________________
॥ श्रीभरते
भ्वर वृत्तिः ॥ ॥ १० ॥
युगलमभत् २ । तयोश्च यशस्वी स्वरूपेति युगलं बभूव ३ । अस्य राज्ये मकारनीतिरभूत् । ततोऽभिचन्द्रः प्रियङ्गरिति युगलं जातम् ४ । यतः -- “ नवघणुसयाइ पढमो, अट्ठसत्तद्धसत्तमाई च । छच्छेव अद्धछट्ठा, पंचसया | पणवीसं तु ॥ १ ॥ संघयणं संठाणं, उच्चत्तं चैव कुलगरेहि समं । वन्नेण एगवन्ना, सव्वाओ पियङ्गवन्नाओ ॥ २ ॥ " | ततस्तदपत्यद्वयं प्रसेनजित् पूर्णकांता इति युगलं जातम् ५ । अस्य काले धिक्कारनीतिरजनिष्ट, तस्यापत्यद्वयं मरुदेवः श्रीकांता इति युगलं जज्ञे ६ । ततः सप्तमं श्रीनाभिर्मरुदेवीति युगलं बभूव ७ । नाभिस्तु सपाद - पञ्चशतधनुर्देहः मरुदेवी अपि सपादपञ्चशतधनुर्देहाऽभूत् । इतस्तृतीयारस्य चतुरशीतिपूर्वलक्षेष्ये कोननवति| पक्षाधिकेषु अवशिष्टेषु आषाढशुद्धचतुर्दश्यामुत्तराषाढा नक्षत्रे सर्वार्थसिद्धिविमानात् त्रयस्त्रिंशत् सागरो- - |पमप्रमितायुरनुभूय ततश्च्युत्त्वा श्रीवज्रनाभजीवः मतिश्रुतावधिज्ञानशाली गजादिचतुर्दशमहास्वप्नसचिततीर्थं - | करजन्मा मरुदेव्याः कुक्षाववातरत् । तदा च नारकाणामपि सुखमजनि । यतः -- “ नारका अपि मोदन्ते, यस्य कल्या- | |णपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ॥ १ ॥ " तस्मिन् काले स्वप्नपाठकादयो न सन्ति । तदा | शक्रः प्रभुभक्त्या स्वामिरक्षार्थ आभियोगिकान् स्वसेवकान् मुमोच | नवमासे सार्द्ध सप्तदिने व्यतिक्रान्ते चैत्रासि -
॥ १० ॥
Jain Education International
श्रीआदीश्वर चरित्रम् ।
For Private & Personal Use Only
www.jainelibrary.org