________________
शुद्धमन्नं समानीय, विभज्य बाहुसंयतः । ददानो यतिभ्यश्चक्रि-कर्मोपार्जितवान् क्रमात ॥१॥ साधुपञ्चशतीनां सद्विश्रामणविधानतः । अतीवबलकर्मादि, सुबाहुरर्जयत् स्वयम् ॥ २ ॥ वज्रनाभगुरौ वैया-वृत्यं विश्रामणादिकम् । बाहुसुबाहू कुर्वाणौ, पुण्यमर्जयतां नवम् ॥ ३ ॥ यदा यदा तयोर्व्याख्या, कुर्वते गुरवः स्फुटम् । तदा पीठमहापीठौ, सहेते न स्वचेतसि ॥ ४ ॥ मायामिथ्यात्वयोगेन, क्रोधादिकृत्यतत्परौ । स्त्रीत्वकर्म भृशं पीठ-महापीठौ बबन्धतुः ॥ ५ ॥ यतः-"जो चवलो सठभावो, मायाकवडेहि वंचए सयणम् । न य कस्स य वीसत्थो, सो पुरिसो
महिलया होइ ॥१॥" सुयशाः संयतस्तत्र, कुर्वन् धर्म निरन्तरम् । अर्जयामास कल्याण-प्राप्तिकर्म निरव्ययम् Padm२ ॥ इत्येकादशमो भवः ॥ ११ ॥ एते सर्वे चतुर्दशलक्षपूर्वी यावत् निकलकं व्रतं प्रतिपाल्य आयुःप्रान्ते ।
समाधिना मृत्वा सर्वार्थसिद्धिविमाने समुत्पन्नाः ॥ इति द्वादशो भवः ॥ १२ ॥ इतश्वावसर्पिण्यां सुषमदुःखमाभिधतृतीयारकप्रान्ते प्रान्तपल्योपमाष्टभागशेषे इहैव जम्बूद्वीपे दक्षिणभरतार्धे गङ्गासिन्ध्वोरन्तराले प्रथमः कुलकरो। विमलवाहनाहोऽभूत् १ । तस्य पत्नी चन्द्रयशाः । तदा च क्रमात् समयहीनताभवनात् स्वल्पेषु कल्पवृक्षेषु । जायमानेषु कलहकारिषु युगलिषु च हकारनीतिः प्रवर्तयामास । तयोः षण्मासशेषायुष्कयोश्चक्षुष्मान् चन्द्रकान्तेति ।
Jain Education
For Private & Personel Use Only
Netw.jainelibrary.org