________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ ९ ॥
Jain Education
स्तीर्थकरः समवसृतः । तदा चक्री सपरिवारः पितुः तीर्थकृतो धर्मोपदेशं श्रोतुं गतः । जिनेन्द्रस्तत्रेति धर्मोपदेशं प्राह " न श्रीमें विपुला जने न च मतिर्जाता न वा सूनवो, जाता वा न गुणास्पदं न च मुदं धत्ते कुटुम्बं मम । द्विष्टो भूमिपतिः खलाश्च कुदृशो देहं रुगार्तं सुतो - द्वाह्या भूरिऋणं ऋणन्ति गृहिणां चेतांसि चिन्ता इमाः ॥१॥ प्राग् जन्मजाते सुकृते सति प्रभो !, विवेकिभिस्तत् पुनरर्थ्यते नत्रम् । नीवीधनाऽदस्य पुनः कुतोऽर्जनं, वापः क्क वा प्रोषितबीज - भोजिनः ॥ २ ॥ " एवं धर्मोपदेशं श्रुत्वा सञ्जातवैराग्यो वज्रनाभो बाहुसुबाहुपीठ महापीठ भ्रातृभिः सुयशसा च | सार्धं संयमश्रियं जग्राह । वज्रनाभो यतिः क्रमाद् गुरुपार्श्वे पठन् द्वादशाङ्गभृत् बभूव, शेषा एकादशाङ्गधारिणो| ऽभवन् । अर्हदादिभिर्विंशतिस्थानकैस्तीर्थकर पदवीं बबन्ध वज्रनाभः । यतः - “ वज्रनाभस्तु विंशतिस्थानैरोभिर्मनोरमैः । निर्ममे तीर्थकृन्नाम-कर्म भवाब्धितारकम् ||१||” तथाहि " अरिहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ । वच्छलयाइ एसिं अभिक्खनाणोवओगे य ८ ॥ १ ॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए निरइआरो १२ । खणलव १३ तव १४ चियाए १५ वेयावच्चे १६ समाही १७ य ॥ २ ॥ अपुव्वनाणगहणे १८ सुअभत्ती १९ पवयणे पभावणया २० । एएहि कारणेहिं तित्थयरतं लहइ जीवो ॥ ३ ॥ "
For Private & Personal Use Only
श्रीआदीश्वर चरित्रम् ।
॥ ९ ॥
www.jainelibrary.org