________________
भगवन् ! युष्मच्छरीरे किमप्यपराधः कृतः स क्षम्यताम् । ततस्तं यति प्रणम्य तस्मै श्रेष्ठिने यति रोगः कृतोऽस्ति भवत औषधाभ्यामिति निवेद्य च स्वस्थानं ययुः । स च श्रेष्ठी तदौषधदानपुण्यमनुमोदमानो गृहस्थ एव सर्वकर्म-ING क्षयात केवलज्ञानं प्राप । तेऽपि च सुहृदो गोशीर्षरत्नकम्बलौ विक्रीय तद्रव्येण निजकाञ्चनलक्षद्वयेन च जिनालयं कारयामासः। इति नवमो भवः ॥९॥ ते सर्वे जीवानन्दादयः क्रमात् प्रव्रज्यां गृहीत्वा द्वाविंशतिसागरायुष्काच्युते स्वर्गे त्रिदशा बभूवुः ॥ इति दशमो भवः॥१॥
अथ जीवानन्दजीवस्ततश्युत्वा प्रथमं जम्बूद्वीपे प्रागग्विदेहे पुष्कलावतीविजये पुण्डरीकिण्यां वज्रसेनस्य तीर्थकरभूपतेः धारिणीदेव्याः-कुक्षौ चतुर्दशस्वप्नसूचितोऽवततार क्रमात् पुत्रोऽभवत् । वज्रनाभनामा ज्येष्ठनन्दनः समभूत् । नृपामात्यश्रेष्ठिसार्थेशानां जीवास्ततश्युताः क्रमेण बाहुसुबाहुपीठमहापीठनामानः कनीयांसस्तस्य सोदराश्चत्वारो बभूवुः । केशवजीवस्तु स्वर्गाच्च्युतः सुयशा नामा भूपपुत्रो भूत्वा वज्रनाभं सिषेवे । वज्रसेनभूपो वज्रना-| भाय पुत्राय राज्यं वितीर्य लोकान्तिकदेवैर्जय नन्देति जल्पिते सांवत्सरिकं दानं दत्त्वा दीक्षा जग्राह । क्रमण केवल-|| ज्ञानं प्राप । वज्रनाभस्तु प्राप्तषटूखण्डराज्य: स्वयं समस्तचक्रवर्तिपदभागभूत् । अन्येास्तस्मिन्नेव पुरे श्रीवज्रसेन
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org