________________
॥ श्रीभरते- न्तयामासुः । एष मुनिरतीव व्याधिना ग्रस्तो दृश्यते । ततः सानुकम्पो जीवानन्दो जगौ-अयं मुनिर्महता धनव्ययेन श्रीआदीश्वर श्वर वृत्तिः ॥
चरित्रम्। सज्जीक्रियते । लक्षपाकतैलं गोशीर्षचन्दनं रक्तकम्बलं च विलोक्यते । तैलं तु मम मन्दिरे समस्ति । शेषवस्तुहयोपायश्चिन्त्य एव । असौ यतिः सुमहाभागस्तपस्वी स्वशरीरनिरपेक्षोऽस्ति । यद्यस्योपकारः करिष्यते कुष्टस्फेटनेन तदा मुक्तिगमनयोग्यं कर्मोपाय॑ते । यतः-"ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात सुखी नित्यं, निधिर्भेषजाद्भवेत् ॥ १॥" अथ तदौषधप्राप्तये महीधरपुत्राद्याः पञ्चापि जीवानन्देन समं कस्यापि सुहृदो महेभ्यस्याऽऽपणे मूल्येन यत्यर्थ गोशीषचन्दनरत्नकम्बले याचन्ते स्म ! धर्मेण तेन तद्वस्तुद्वयं यत्यर्थ दत्तम् । प्रोक्तं ममापि पुण्यं भवति । पापिनामौषधे दत्ते पापमेव भवति । धर्मिणां तु दत्ते धर्म एव भवति । धर्मी तु धर्ममेव
करोति । तस्य पुण्यविभागो वैद्यस्यौषधदातुर्भवति । ततस्ते सर्वे सुहृदस्तानि औषधानि लात्वा वने ययुः तस्य मुनेN स्तेन तैलेन प्रथमं देहेऽभ्यङ्गनं कृतम् । तत्तैलयोगात् अतीव तापिते साधुवपुषि रत्नकम्बलं निदधे । तापव्याकुलाः साधुदेहस्थाः क्रमयो रत्नकम्बले लग्नाः । ततो वैद्येन दीर्घदर्शिना ते क्रमयोऽतीवार्द्रगोशबमध्ये स्थापिताः । ततस्तदेहे शीतनिमित्तं गोशीर्षचन्दनाङ्गरागः कारितः इति। एवं त्रिःकृत्वा प्रतीकारेण मुनि पटूकृत्य ते क्षमयामासुरिति
॥८
॥
Jain Educat
!!
For Private & Personel Use Only
alliyww.jainelibrary.org