________________
Jain Education
ध्यानात्
| मुनिसेनसागरसेनाख्यमुनियुगं प्रणनाम । तयोर्मुन्योः पृथग् पृथग् उपदेशं श्रुत्वा स्वपुरमाययौ । अन्येद्युर्वज्रजङ्घनोक्तम् - प्रिये ! व्रतमहं ग्रहीष्ये त्वं समाधिना गृहिधर्मं पालय । पत्नी जगौ । पुराऽहमपि व्रतं ग्रहीतुकामाऽस्मि, यदि त्वया व्रतं ग्रहीष्यते, तदाऽहमपि त्वया सह दीक्षाग्रहणं करिष्ये । अत्रान्तरे पुत्रो मातापित्रोः संयमग्रहणाभिप्रायमजानानो विषं दातुकामोऽभूत् । ततः पुत्रेण राज्यार्थिना विषदानात् मातापितरौ हतौ । इतिवज्रजङ्घभवः ॥ ६ ॥ शुभमृत्वा उत्तरकुरुषु समुत्पन्नौ । युग्मधर्मेण तत्र दशविधकल्पवृक्षपूर्णमनोरथौ सुखिनौ बभूवतुः । इति युग्मिभवः सप्तमः ॥ ७ ॥ ततो मृत्वा तौ मिथः स्नेहलौ प्रथमस्वर्गे सुरावभूताम्, तत्रातीव सुखिनौ जातौ । इतिसुरभवो - ||ऽष्टमः ॥८॥ स्वर्गात् च्युत्वा जम्बूद्वीपे विदेहे क्षितिप्रतिष्ठित पुरे स्वर्गिपुरसोदरे, सुविधिवैद्यस्य जीवानन्दनामा पुत्रोऽभूत् । तत्रैवेशानचन्द्रस्य भूपस्य महीधरनामा पुत्रो बभूव १ ॥ मन्त्रिपुत्रः सुबुद्धिरासीत् २ ॥ सार्थवाहाङ्गजः पूर्णभद्रः ३ ॥ श्रेोष्टसूनुर्गुणाकरोऽभूत् ४ ॥ श्रीमतीजीवः स्वर्गात् च्युत्वा तत्रैव श्रेष्टिपुत्रः केशवनामाऽभवत् ५ ॥ एतेषां जीवानन्देन सह सौहार्द्दमभूत् अत्यन्तम् । कदाचिज्जीवानन्दवैद्यस्य सद्मनि तेषां वयस्यानां पञ्चानां तस्थुषां गुणाकराख्यो जैनमुनिः कुष्टगलदेहः पारणार्थं समागाव । तस्य यतेस्तादृशं देहं कुष्टव्याधिग्रस्तं वीक्ष्य मिथश्चि
8
For Private & Personal Use Only
www.jainelibrary.org