SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ १०७ ॥ Jain Education I स्वरूपमवगत्य चेलणा राज्ञी प्राह स्वामिन् ! एकं रत्नकम्बलं मह्यं देहि इति कदाग्रहं जग्राह राज्ञी । ततो राज्ञा त एव वणिज आकार्य रत्नकम्बलो लक्षद्रव्येण मार्गितः । तैरुक्तं भद्रायाः सर्वाणि रत्नकम्बलानि दत्तानि लक्ष| लक्षद्रविणमूल्येन । ततो राज्ञा पुमानेको रत्नकम्बलं लक्षद्रव्येण मार्गयितुं प्रेषितो, भद्रापार्श्वे गत्वा लक्षद्रविणमूल्येनैकं रत्नकम्बलं याचते स्म । भद्रा प्राह तं प्रति ते षोडश कम्बला द्विधा द्विधा कृत्वा शालिभद्रस्य द्वात्रिंशत्प्रियाभ्यो मयाऽर्पिताः । ताभिरंघीन् प्रक्षाल्य लूषयित्वा च त्यक्तास्ते रत्नकम्बलाः । यदि राज्ञः कार्य | स्यात्तदा खंडितानि रत्नकम्बलानि गृहाण चिल्लणायै । गच्छ त्वया विज्ञप्यतामेवं प्रभुः । स पुमान् गत्वा भद्रोक्तं राज्ञोऽग्रे प्राह । तदा राज्ञी प्राह वणिजोऽपि वर्याः येषां पत्न्य एवंविधरत्नकम्बलभोगं कुर्वन्तिरम । लक्ष्मीर्यदि भोगाय नायाति तदा तया किं प्रयोजनं, या नदीवेगगजकर्णध्वजादिवच्चञ्चलाऽस्ति । यतः - " संज्झरागजलबूब्बूओवमे, जीविए य जलबिंदुचंचले । जुव्वणे य नईवेगसंनिभे, पाव ! जीव ! किमयं न बुज्झसि ॥ १ ॥ सम्पदो जलतरङ्गविलोला, योवनं त्रिचतुराणि दिनानि । शारदाभ्रपरिपेशलमायुः, किं धनैः कुरुत धर्ममनिन्द्यम् | ॥२॥ ततः श्रेणिकस्तं शालिभद्रं द्रष्टुकामः स्वं जनमाकारयितुं प्रैषीत् । आहूते शालिभद्रे भद्रा स्वयमेत्य भूपपार्थे ! For Private & Personal Use Only 943 19 श्री शालिभद्रमहर्षिचरित्रम् | ॥ १०७ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy