________________
तस्य पत्नी सच्छीला सुभद्राऽभूत् । अन्यदा शालिक्षेत्रं स्वप्ने वीक्ष्य क्रमात् पुत्रमस्त सुभद्रा, शालि. क्षेत्रस्वप्नात् शालिभद्र इति नाम दत्तम् । अष्टवर्षदेशीयः शालिभद्रः पित्राऽशेषकलाः पाठितः। यतः प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्मश्चतुर्थे किं करिष्यति ॥ १ ॥ क्रमान्महे-10 भ्यपुत्री त्रिंशतं श्रेष्ठी पुत्रं यौवने पर्यणाययत् । देवविमानसमे गृहे ताभिः पत्नीभिः समं भोगान भुञ्जान. शालिभद्रो गतमपि कालं न जानाति, स्वर्गेऽप्सरोभिरिवेन्द्रः सुखं तिष्ठति तथाऽयम् । अन्यदा गोभद्रः श्रेष्ठी, उत्पन्नवैराग्यः श्रीवीरपाश्वे दीक्षां गृहीत्वा विधिना संयमं प्रपाल्य गृहीतानशनो मृतो देवोऽभूत् । स सुरः शालि-IN
भद्रभाग्यैः सुतवात्सल्यतः पुत्रस्य भद्रायुक्तस्य नित्यं दिव्यं भूषणादिवस्तु ददातिस्म। “ पंचसु जिणकल्लाणेसु, चेव kal महरिसितवाणुभावाओ, जंमंतरनेहेण य, आगच्छंती सुरा इहयं ॥१॥चचारि पंच जोयण-सयाइ गंधो य मणुअलो
अस्स । उ8 वच्चइ जेणं, न हु देवा तेण आवंति ॥२॥" इतस्तत्र पुरे वणिजो रत्नकम्बलान् गृहीत्वा श्रेणिकपार्श्वे विक्रेतुमाययुः। राज्ञा मूल्ये पृष्टे तैर्लक्षद्रविणमूल्यमेकैकस्य रत्नकम्बलस्य प्रोक्तम् । राज्ञोक्तं एकेन लक्षमूल्येन कम्बलेन बहवस्तुरङ्गमा लभ्यन्ते, तेन मया न गृहीष्यन्ते । ततस्ते पुरमध्ये विक्रेतुं गताः । रत्नकम्बल
Jain Education 11
For Private Personal Use Only