________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ १०६ ॥
Jain Education
|| केवलिपर्षदि । तानूचे गौतमो हन्त, वन्दध्वं परमेश्वरम् ॥ १॥ ) श्रीवीरो जगौ । भो गौतम ! केवल्याशातनां मा कुरु । | गौतमोऽवक् का केवल्याशातना क्रियमाणाऽस्ति मया ? | श्रीवीरोऽवग् गौतम ! एषां शालमहाशालादीनां केवलज्ञानं | जातमस्ति । ततस्तान् स्वहस्तदीक्षितान् लब्धकेवलज्ञानानुत्थाय भक्तिपूर्वं स्वं निन्दन् क्षमयामास । ततः श्रीगौतमो | महावीरं जिनं प्रति प्राह भगवन् ! अहमभाग्यवान् यस्मै दीक्षां यच्छामि तस्य केवलज्ञानं जायते मम तु न । ततो भगवतोक्तं -मा खेदं कुरु तवापि केवलज्ञानं भविष्यति । यश्च श्रीअष्टापदे चतुर्विंशर्ति जिनान् वन्दते तस्य तस्मिन्नेव |भवे केवलज्ञान श्रीरुत्पद्यते । एतच्छ्रीवीरजिनोक्तं श्रुत्वा श्रीगौतमोऽष्टापदे गत्वा श्रीचतुर्विंशतिं जिनान्नत्वा पञ्चदशशतं त्र्युत्तरं तापसानां प्रतिबोध्य दीक्षां ग्राहयामास । तेषां साधूनां क्रमात् केवलज्ञानमुत्पन्नं परमान्नभोजन समवसरणद|र्शनप्रभुमूर्त्तिदर्शनात् । इतः शालमहाशालादयः आयुषः क्षये मुक्ति भेजुः । इतिशालमहाशालकथा समाप्ता ॥२१॥
ददानो भावतो दानं, यतिभ्यः शुद्धमेकदा । लभतेऽनर्गलां लक्ष्मीं, शालिभद्र इवाङ्गवान् ॥ १ ॥ विषयेषु जनः स्पर्धा, कुरुते ज्ञस्तु मुक्तये । निर्द्वन्द्वा सा यथा जज्ञे, धन्यश्रीशालिभद्रयोः ॥ २ ॥ तथाहि - जम्बूद्वीपे | दक्षिणभरतमध्ये राजगृहे पुरे श्रेणिको राजा न्यायाध्वना राज्यं चकार । तस्यामात्यो गोभद्रनामा श्रेष्ठयभूत् ।
For Private & Personal Use Only
श्रीशाल
महाशालचरित्रम् |
॥ १०६ ॥
www.jainelibrary.org