________________
॥ श्रीभरत- श्वर वृत्तिः॥ ॥१०५॥
श्रीशालपरित्रम्।
इत्यादि मिथो द्वौ सहोदरौ व्रतं जिघृक्ष काम्पील्यपुरात खं जामेयं गांगलिं मातापितृयुतं तत्रानयामासतुः । ततो गांगलिं जामेयं महोत्सवपुरस्सरं स्वराज्ये शालभूपो भातृयुग न्यवीविशत् । ततो जिनालयेऽष्टाह्निकामहः कृत्वा सप्तक्षेत्र्यां स्वं धनं व्ययित्वा श्रीवीरपार्श्वे शालमहाशालौ संयम ललतुः। ततो निरन्तरं शुद्ध संयम पालयन्तौ तपः क्रियानुष्ठानपरौश्रुतं भणन्तौ गुरुपार्श्वे बहुश्रुतावभूताम् । एकदा श्रीवीरेण श्रीगौतमस्वामी शालमहाशालयुतो राजगृहाच्चम्पापुयां गांगलिजामेयप्रतिबोधाय प्रेषितः । तत्रागतः श्रीगौतमः उद्यानवने समवासार्षीत् । तत्र श्रीगौतमं शालमहाशालौ च नन्तुं गांगलिः पितृमातृयुतो ययौ। तथाहि-" संझरागजलबूब्बूओवमे, जीविए य जलबिंदुचंचले। जुब्बणे य नईवेगसंनिभे, पाव जीब किमयं न बुज्झसि ॥१॥ सम्पदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रपरिपेशलमायुः, किं धनैः । कुरुत धर्ममनिन्द्यम् ॥२॥"धर्मोपदेशमाकर्ण्य श्रीगौतमस्वामिपार्थात् प्राप्तवैराग्यो गांगली राजा वं पुत्रं राज्ये न्यस्य यशोमत्या मात्रा पिठरेण पित्रा सह संयम जग्राह । ततः श्रीगौतमस्वामिनोक्तं,-युष्माभिर्दीक्षा गृहीता परं शुद्धा पालनीया, शुद्धं संयम विना मुक्तिनं भवति । एके सिंहतुल्या भूत्वा दीक्षा लात्वा फेरुवत् पालयन्ति, एके जनाः कातराः फेरव इव गृहीतव्रताः सिंहा इव पालयन्ति संयमम्, एके कातराः फेरव इव संयमं गृहीत्वा फेरव इव
॥१०५॥
Jain Educationlinelional
For Private & Personel Use Only
ollww.jainelibrary.org