________________
॥ श्रीभरते
श्वर वृत्तिः ॥
॥ १०४ ॥
गृहीष्यन्ते । असौ श्रेष्ठी शीलवान् महोत्सवपुरस्सरं स्वगृहे गतः । ततो श्रेष्ठी वैराग्यवान् संयमं गृहीत्वा सर्वकर्मक्षयं कृत्वा प्राप्तकेवलज्ञानः सुदर्शनः शीलप्रभावात् मुक्तिमगात् मनोरमाऽपि क्रमात् संयमं गृहीत्वा क्षीणसर्वकर्मपुञ्जा मुक्तिं गता । इति सुदर्शन श्रेष्ठिकथा समाप्ता ॥ २० ॥
भावनां भावतोऽनित्या-दिकां भावयतां नृणाम् । ज्ञानं शालमहाशाल, - साधूनामिव जायते ॥ १ ॥ तथाहि - पृष्टचम्पा नाम पुरी स्वःपुरीसोदरा जिनप्रासादधोरणीबन्धुरा विद्यते । तत्र शालो राजा राज्यं पृथिवीं | पालयामास न्यायात् । तस्य लघुभ्राता महाशालो युवराजपदवीं प्राप । इतः पूर्वे काम्पील्यपत्तने पिठरराज्ञे शालम| हाशालपित्रा यशोमती पुत्री दत्ता । तयोः पुण्यं कुर्वतो गीगलिर्नामा पुत्रोऽभूत् । इतः श्रीवीरजिनो रविः पृथिवीं प्रबोधयन् गोविलासैः पृष्टचम्पापुर्या उद्याने सुभूभागाभिधे समवासार्षीत् । देवै रुप्यरत्नस्वर्णमयं प्राकारत्रयं योजनमितं समवसरणं | श्रीवीरः सिंहासने धर्मदेशनां कर्तुमुपविष्टः । तदा शालमहाशालौ सहोदरौ धर्मे श्रोतुं तत्राजग्मतुः । परमेश्वरो योजनगामिन्या वाण्या सर्वजीवप्रबोधदायिन्या धर्मोपदेशं दातुं लग्नः । यतः - " देवा दैवीं नरा नारीं, शबराश्चापि शाबरीम् ।
चक्रे !
Jain Educationtional
For Private & Personal Use Only
श्री सुदर्शन श्रेष्टिचरित्रम् श्रीशालमहाशाल
चरित्रम् |
॥ १०४ ॥
www.jainelibrary.org