SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नृपं मुत्कलाप्य देवकुले कायोत्सर्गे तस्थौ । तदा पण्डिता यक्षप्रतिमां सप्रभावां वाद्यवादनपूर्व शिबिकारूढां कृत्वाऽऽनयति, एवं कृत्वा कृत्वा विश्वसितेषु सौविदल्लादिषु यक्षप्रतिमाछद्मनारथमारोप्य राजभवने राज्ञीपाश्चें नीतः सुदर्शनः श्रेष्ठी कायोत्सर्गस्थ एव । ततोऽभययोक्तं भो सुदर्शन ! मया सह भोगान् भुंव । चाटूक्तिभिस्तया भूयो भयो । जल्प्यमाने सुदर्शनो न वक्ति तदाऽभया प्राह-यदि त्वं मदीयं वचो न मन्यसे तदा तव प्राणानहं गृहीष्यामि । यदा स सुदर्शनः श्रेष्ठी तद्वचो नाङ्गीचकार । तदा तयोच्चैः स्वरं जल्पितमिति भो भो लोका ! धावत अयं दुष्टः पापी मदीयं शीलं भङ्कमागतोऽस्ति । ततो राजपुरुषा आगताः श्रेष्ठी राजपाधै आनीतो राज्ञा वादितोऽपि पौषधभगभयान्न वदति, तदा राजा रुष्टोऽवग्-अयं पापी शूलायां क्षिप्यताम् । ततो राजपुरुषैः पुरमध्ये भ्रामयित्म शूलायां । क्षेप्तुं श्मशाने नीतः सुदशनः । इतो मनोरमा स्वस्य भर्तुः स्वरूपमवगत्य मम भर्ता तादृग् न भवतीति । मनोरमा - कायोत्सर्ग स्थिता । यदा मम भर्तुर्विनो विलयं बजिष्यति, तदा मया कायोत्सर्गः पारयितव्यः। ततो यावद्राजपुरुषास्तं शूलायां चिक्षिपुस्तावत् स्वर्णसिंहासनं कृतं शासनदेव्या । ततो राजा तत्र गतः। तं तथास्थं श्रेष्ठिनं दृष्ट्वा राजा चमत्कृतः । शासनदेव्योक्तं, यदि अस्य श्रेष्टिनः कोऽपि विरुद्धं चिन्तयिष्यति, तदा तस्य प्राणा मया । Jain Educat i onal For Private & Personel Use Only क/www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy