________________
बुद्ध्या बुधः, तेजसा सूर्यः, सौम्येन सोमः, कर्मच्छेदनकर्कशत्वेन मङ्गलः, धिषणया शुक्रः, कुकर्ममन्दत्वेन मन्दो जितोऽस्ति तेन सुदर्शनेन । किं च विशेषेण शीलगुणेनैकेन सर्वेषूत्कृष्टोऽस्ति सुदर्शनः । किन्तु विधात्रा सर्वगुण
मयश्चक्रे सः । सा कपिला पत्युमुखात्तद्गुणानाकर्णयन्ती सुदर्शनश्रेष्ठिन्यनुरागिण्यभूत् । यतः-" स्मितेन भावेन । नामदेन लज्जया, पराडमखैर कटाक्षवीक्षितैः । वचोभिरीाकलहेन लीलया. समन्तपाशं खल बंधनं सि
सदा सुदर्शनेन सङ्गमिच्छन्ती कपिलाऽन्येद्युभर्तरि कस्मिंश्चिद् ग्रामे गते कूटघटबुद्धिः सुदर्शनश्रेष्टिगृहे गत्वा | ५ श्रेष्टयग्रेऽवग् । भवतः सुहृत् ज्वरी जातोऽस्ति । तेन त्वामाकारयति । अहं त्वामाकारयितुमागताऽस्मि । विलम्बो न | क्रियते, वेलां क्षमते न । सुदर्शनोऽवग्-मया न ज्ञातं सम्यग् । ततः सर्व कार्य मुक्त्वा तत्कालमुत्थाय सुदर्शनो मित्रगृहमध्ये गतः । यथा यथा सुदर्शनो गृहमध्ये प्रविशति तथा तथा सा द्वाराणि दत्ते । ततो मध्येगेहं गत्वा कपिलाऽवग-स्वामिन्नहं बहुकालात् त्वत्सडं वाच्छन्ती अस्मि । इयं शय्या इदं महपुस्तदायत्तं विद्यते । भोगान् स्वेच्छया भुंक्ष्व । ततो यदा सुदर्शनो न मन्यते तदा तस्य शरीरेण सङ्गं करोति सा बलात् । सुदर्शनस्तु न मनाग् विकारं गच्छति । सुदर्शनो जगौ त्वं केन वाहिता ? अहं तु नपुंसकोऽस्मि । त्वया कस्याप्यग्रे न वक्तव्यम् । ततस्तयोक्तं
Jain Education
For Private & Personel Use Only
NTww.jainelibrary.org