SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १०२ ॥ Jain Education In | दानपूर्वं नानाप्रकारदानं याचकेभ्यो ददानोऽईद्दासश्रेष्ठी पुत्रस्य सुदर्शन इति नामादात् । वर्द्धमानः क्रमात् पुत्रः सुदर्शनो | गृहीत धर्मशास्त्रोऽभूत् यतः - 'रूपयौवनसम्पन्ना, विशालकुलसम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः ॥ १ ॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ २ ॥ " ततः सुदर्शनः पित्रा मनोरमाऽभिधां महेभ्यपुत्रीं वरमहोत्सवपुरस्सरं परिणायितः । तया पत्न्या सह धर्म कुर्वाणः सुद |र्शनः सुदर्शन पालयतिस्म । मूलं बोधिद्रुमस्यैतत्, द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसम्पदाम् | ॥ १ ॥ गुणानामेव चाधारा, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाघ्यते न कैः ॥ १ ॥ पुत्रं | गृहभारधरणयोग्यं मत्वाऽर्हदास श्रेष्ठी गुरुसंनिधौ संयमं जग्राह । सोऽथ सुदर्शनो विशेषेण राजमान्यो बभूव । | पितुरधिकोऽभूद्गुणैः सुदर्शनः । यतः- “ कुम्भः परिमितमम्भः पिबति पपौ कुम्भसम्भवोऽम्भोधिम् । अतिरिच्यते। सुजन्मा, कश्चिज्जनकान्निजेन चरितेन ॥ १ ॥ तत्र चान्यो नृपार्थः पुरोधाः कपिलाहः सुदर्शनस्य मित्रमभूत् । अन्येद्युः कपिलः प्रोचे प्रेयस्या कपिलाख्यया, स्वामिन्! तिष्ठसि कुत्र त्वं ? पुरोधाः प्रोवाच, सुदर्शनस्य मित्रस्यो - | पान्ते तिष्ठामि, गोष्ठीक्रियते तत्र मया । तस्य किं नाम त्वया न ज्ञायते ? । रूपेण कन्दर्पः, वाचा वाचस्पतिः, For Private & Personal Use Only श्री सुदर्शनश्रेष्टिचरित्रम् | ॥ १०२ ॥ w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy