________________
Jain Educate
स्वं बलं ताभ्यां बहुहन्यमानं दृष्ट्वा कूणिकेन स्वसैन्यस्य परितः खादिराङ्गारपूर्णा खांतिका रहः कारिता । तदुपकप्ठे | प्राप्तः सेचनको हल्लविहल्लाभ्यां भृशं प्रेर्यमाणो विभङ्गज्ञानी तौ हल्लविहल्ला निजस्कन्धादुत्तार्य स्वयं खातिकायां पतितो विपेदे प्रथमश्वभ्रे गतो हस्ती । तेनैव वैराग्येण व्रतोत्कण्ठितौ हलविला जाती । ततः शासनदेव्या उत्पाटय श्रीवीपार्श्वे मुक्तौ । ततः संयमं जगृहतुः । श्रीजिनोदिततपः परौ हलविलैौ मृत्वा सर्वार्थसिद्धिविमाने जग्मतुः । ॥ इति हलविलकथा समाप्ता ॥
पालयन् दर्शनं शुद्धं, शीलं च मुक्तिसौख्यदम् । मुक्तिं गच्छति भव्याङ्गी, सुदर्शन इवादरात् ॥ १ ॥
तथाहि—जम्बूद्वीपदक्षिणदिग्विभूषणभरतखण्डे चम्पापुरी विद्यते तत्र रणसिंहभूपपुत्रो दधिवाहनराजा राज्यं न्यायाध्वना पालयामास । राधावेधसाधनेन राज्ञा अभया देवी परिणीता । तत्रार्हदासोऽतुलबलसमृद्धिः श्रेष्ठी वसति स्म अर्हद्दासी पत्नी तस्यासीत् । द्वावपि श्रीजिनोक्तधर्मे कुरुतः । तस्या अद्दास्या उदरे कोऽपि पुण्यवान् जीवोऽवततार । अर्हद्दासी सदा जिनपूजाशुद्धसम्यक्त्व पालन पराऽजनि । क्रमात् पुत्रमसूत । शुभेऽहनि स्वजनलोकसन्मान
For Private & Personal Use Only
www.jainelibrary.org