________________
-
-
-
-
--
-
-
वाटधानवासिनः । इत्युक्ते नृपेणाकाशात् पुष्पवृष्टिरपतत् । जय जय भूपेति दिव्यवागजनि अथ तैाह्मणै राजादे-|| शात् तेषां जनङ्गमानां संस्कारो विहितः। ततस्ते ब्राह्मण्यं लभन्तोच्चैर्देवमानवपूजिताः। उक्तञ्च-"दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना। वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणाःकृताः॥१॥" ततो महामहोत्सवपूर्व पुरे प्रविश्य मन्त्र्यादिभिर्विहितराज्याभिषेकः सप्रतापो राज्यं करोति करकण्डूः। इतः स बादी द्विजः करकंडूं प्राप्तराज्यं श्रुत्वा तत्र चाभ्येत्य ग्राममेकं । याचते स्म । ततो राज्ञोक्तं द्वास्थेन द्विजं प्रति । गच्छ द्विज चम्पायां तत्र मन्निदेशतो ग्रामं तुभ्यं दास्यति । ततो द्विजस्तत्र गत्वा चम्पेशं ग्रामं याचते स्म । करकण्डनिदेशतो दधिवाहनो दध्यौ । अहो मर्खः स करकण्डराजा, य एवं मां वदति । ततो राजा तं प्रति प्राह-कपोतपोन्नतिम्लेच्छपोतः कथमनात्मवान् । यो यो मया सैनिकः श्येनः पक्षीन्द्रेण विरुध्यते ॥१॥ त्वं तु दूतत्वात याचकत्वादवध्यो रणे तस्य प्राणग्रहणादहं तुभ्यं ग्रामं दास्यामि । ततस्तेन द्विजेन तद्भूपोक्तं करकण्डूपाधै गत्वा प्रोक्तम् । ततस्तत्कालमेव सन्नह्य करकण्डूश्चम्पां प्रत्यचलत् । ततस्तं करकजाण्डूमायान्तं श्रुत्वा दधिवाहनो वर्ग सजीकृत्य युद्धायाचलत् । सामभूमियुद्धाय सज्जीकृता । ततो मिथः द्वयो-INGH
भूपयोर्महान्तं संग्रामं जीवसंहारं च मत्वा पद्मावती साध्वी पुत्रपत्योर्युद्धं जायमानं ज्ञात्वा तद्वारणाय करकण्डूपा
-
--
Jain Educatio
n
For Private & Personal Use Only
||www.jainelibrary.org