________________
॥ श्रीभरते-जावय॑ते क्वचित् ॥३॥ नरकेषु च तिर्यक्षु, मनुष्येषु सुरेषु यः । आत्माऽयं नावमन्तव्यः, स क्वचिद् दैवतं हि सः ॥४॥श्रीकरकण्ड श्वर वृत्तिः॥
|चरित्रम्। अनेनैव निमित्तेन, त्रिकालज्ञानिनो जगुः । जीवस्य हिंसया पापं, जीवस्याऽहिंसयाऽनघम् ॥५॥ अन्धे तमसि मग्नाना॥ ९९॥
मस्माकं त्वं महागुरुः। तेजसैव तथाऽनेन, ज्ञानमुन्मीलितं हि तत् ॥६॥ नाराजकेषु राष्ट्रेषु, हव्यं दहति पावकः ।। न च धर्माः प्रवर्तन्ते, न च वर्षति माधवः ॥७॥ कुतो धनं कुतो दाराः, शरीरं च कुतो नृणाम् । सर्वदेवमयस्त्राता, यदि राजा न पालयेत् ॥ ८ ॥ सर्वावलोकने सूर्यः, पापानां निग्रहे यमः । कुबेरो भरणे राजा, प्रायश्चित्तेषु पावकः ॥९॥ तदेनस्तदविज्ञान-जनितं नो विशोधय । तीर्थ राजा प्रजानां हि, कल्मषक्षालनक्षमम् ॥ १० ॥ इत्यादिना ब्राह्मगैर्विज्ञप्तो भूपस्तीवमत्सरी उवाच । येषामहं संमतोऽस्मि ते सर्वे मान्याः अन्ये तु द्विजा वध्याः। तैर्द्विजैः सर्वैरुक्तं, त्वमस्माकमनुमतोऽसि । ततोऽवग् भूपः-एतहि तर्हि मातङ्गान् संस्कारैर्ब्रह्मसूरपि (कुरुध्वं)। ततो भीता द्विजा भूपं प्रति जगुः-यदाह देवस्तत्तथ्य, संस्कारैरेव विप्रता । नहि ब्राह्मणजात्योऽपि, व्रात्यो ब्राह्मण्यमर्हति ॥ १ ॥ अद्विजस्याष्टवर्षस्य, जातस्यातः परं द्विजैः । तत्त्वेनाभूततद्भावात, बटूकरणमिष्यते ॥२॥ यदेवस्य रोचते तत्तु क्रियते एव, ॥९९ ॥ व्यवहारस्तु बलीयान् विद्यते लोकेषु । ततो विमृश्य राजोवाच द्विजान् प्रति । ततः ते जनङ्गमा द्विजा भवन्तु अस्माकं
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org