________________
॥ श्रीभरतेश्वर वृत्तिः ॥
118211
Jain Education
नाख्यायि ? उड्डाहो भविष्यति । पद्मावत्योक्तं भगवति ! यद्यहं गर्भमकथयिष्यं तदा त्वं संयमं नादास्यः । तेन ( भयेन मया नोक्तो गर्भः । ततो महत्तर्या सा साध्वी प्रच्छन्नं स्थापिता । अन्येद्युः पद्मावती पुत्रमसूत । तदा प्रवर्तिन्योक्तं यद्ययं बालो रक्ष्यते तदा महानुड्डाहो भवति यदि कस्यापि हस्तेनायते तदा बहुसंसारवर्द्धकं पापं भवति, ततोऽयं यत्नतः शनैः पुराद् बहिर्मुच्यते । ततः पद्मावती नीरागचित्ता संसारमसारं मत्वा नामाङ्कितमुद्रारत्नयुतं | बालकं श्मशाने मुमोच । तं बालं तथास्थितं दृष्ट्वा जनङ्गमो लात्वा रहो निजगृहमनयत् । अनपत्यायाः | स्वपत्न्याः स बालकोऽर्पितो जनङ्गमेन । सा जनङ्गमा तं बालं पालयति स्म । एतत् सर्वे पद्मावत्या रहसि स्थितया ज्ञातं मंदाक्षी सा साध्वी स्वाश्रयं प्राप्ता । स बालो जनङ्गमगृहे ववृधे । रममाणः स बालेषु, राजते राजतेजसा । | पतितोऽपि गणे ग्राव्णां, यो मणिर्मणिरेव सः ॥१॥ राजोपमानः स बालः क्रीडति स्म करकंडूया बालात् करेण कंडूयति स्वं शरीरमिति स बालः । ततोऽभवत्तस्य करकण्डूरिति नाम । सोऽपि षड्वर्षदेशीयः सार्वभौमाकृतिः पितुरादेशात् | पातिस्म श्मशानदेशं धिग् विधिम् । अन्येद्युस्तत्रागतौ मुनी वंशजालीं वीक्ष्य मिथः प्रोचतुः, योऽस्य वंशस्य मूलाच्चतुरङ्गुलीस्त्यक्त्वा वंशस्य चतुरङ्गुलमात्रं पर्व आदत्ते, सोऽवश्यं राज्यं लभते । तदा साधुवचस्तादृशं मात -
For Private & Personal Use Only
श्रीकरकण्डूचरित्रम् |
॥ ९८ ॥
w.jainelibrary.org