SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सुकृतानामनुमोदनं कृत्वा सागारमनशनं जग्राह । एवंविधे श्वापदसंकटे पञ्चपरमेष्ठिनमस्कारं पुनः पुनः स्मरन्ती वर्त्मनि पद्मावती तापसाश्रमं ययौ । तां स्त्रियमागतां वीक्ष्य तापसोऽवग-का त्वं कस्य सुता कस्य च प्रियाऽसि. कुतस्तवावस्थेशी विद्यते । तवास्मिन्नाश्रमे तिष्ठन्त्याः समाधिर्भविष्यति । ततस्तया सर्व खं वृत्तान्तं तस्याग्रे प्रोक्तम् । तेन तापसेन चेटकराजसुता वाग्भिरमृतकल्पाभिः सैवं जल्पिता । त्वमत्र तिष्ठ । ततस्तेन सा स्वोपाहृतैः फलैः प्राणयात्रामकार्यत। ततस्तया प्रोक्तमेष मार्गः कुत्र गमिष्यति ? तेनोक्तं दन्तपुरस्याध्वाऽस्ति । तत्र दन्तवक्रोऽस्ति भूपतिः । तत्र । मध्ये निर्भया त्वं चम्पां गच्छेः । ततः सा पद्मावती तापसं प्रणम्य दन्तपुरे गत्वा साध्वीनां पार्श्वे ययौ । वन्दित्वा । सा साध्वीर्यावदने उपविष्टा, तावत् साध्व्योक्तं, श्राविके ! कुतस्त्वमागाः ? निवेदिते तया स्वोदन्ते प्रवर्तिनी प्रत्युवाच । दुःखैकसारे संसारे, सुखाऽऽभासोऽत्र स क्वचित् । स्वप्ने राज्यमिव भ्रान्ति-रियं विजयतेतराम् ॥१॥ दुर्घट घटयन्नेषः, सिद्धं विघटयन् हठात् । घटनोद्घटनव्यग्रो, नैव निर्विद्यते विधिः ॥२॥ जिनं जिनमतं किञ्च मुक्त्वा जिनमतं श्रितान् । अवस्कर इवाप्यन्य-शेषसंसारविस्तरः॥३॥ इत्यादि धर्मोपदेशमाकर्ण्य प्ररूढसंवेगा तदेव बतमग्रहीत् पद्मावती। व्रतविघ्नभियाऽप्रोक्ते तया गर्भे निजे प्रवर्तिनी जगौ-महानुभागे ! त्वया पूर्व किं गर्भस्वरूपं Jain Educatio n al For Private & Personel Use Only Tww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy