________________
IN भीरुः श्रीपार्श्वनाथान्वयी केशी गणभृत् श्रीगौतमोक्तं यतिधर्म प्रपेदे, श्वेतवासा अभूत् क्रमात सिद्धिं गतः केशी ।।
उक्तञ्च-" नाभून्मुनीश इह नो भविता समूल,-मुन्मूलितस्मयतरुर्गुरुकेशितुल्यः । यो जैनशासनविभेदभियेंद्रभूति, ज्यायानपि व्रतलघु गुरुमेव मेने ॥१॥” इति केशिगणधरकथा समाप्ता ॥ १७ ॥
कोऽपि भव्यजनो वीक्ष्य, त्रिजगत् क्षणभङ्गुरम् । गृह्णाति संयमं सद्यः, करकण्डूमहीशवत् ॥१॥
चम्पापुर्या श्रीवासुपूज्यचैत्यशोभितायां दधिवाहनो राजाऽभूत् । तस्य राज्ञो राज्ञी पद्मावती चेटकभूपपुत्री बभूव ।। सा पद्मावती सगर्भा दोहदमेवं बभार । धृतातपत्रा भूभा, भूपनेपथ्यधारिणी । सिन्धुरस्कन्धमारूढा, किल कक्षे लला-| म्यहम् ॥१॥ एवंविधं दोहदं लज्जावशात् सा प्रकाशयितुं भूपाग्रे न शशाक । सा कृशाङ्गी भपपृष्टाऽन्यदा खं दोहदं । प्रकाशयामास । ततो राज्ञा सा पत्नी धृतातपत्रा करिस्कन्धारूढा वने नीता । तदाऽकस्माद्गजः स्मृतविन्ध्याटवीश
लक्यादिभोगो मदोन्मत्तः सन् चचाल दूरदेशं प्रति । राजराझ्यौ दध्यतः किं करिष्यते आवाभ्यामयं गजो न व तिष्ठति । राजा तु दुरासन्नान् महावृक्षान् वटादीन् वीक्ष्य राज्ञी प्रति जगौ । वटपादपे त्वमवलम्बेथाः, अहमप्य
For Private 3 Personal use only
Trww.jainelibrary.org