________________
चरित्रम्।
॥ श्रीभरते-10 सूक्ष्मं चिदात्मान-मात्मानं कर्मवर्मितम् ॥ निश्चित्येति महाराज !, कुरु धर्ममनातुरः॥११॥ धर्माजन्म ॥१॥ श्रीकेशिश्वर वृत्तिः ॥
गणधरक्रमागतामपि माप!, त्यज नास्तिकता क्षणात् । किं दरिद्रतया श्रेयः, श्रियं संश्रय संमुखीम् ॥ १२ ॥ केऽपि सहस्रंभरयो, लक्षंभरयश्च केऽपि केऽपि नराः । नात्मम्भरयः केचित, फलमेतत्सुकृतदुष्कृतयोः ॥१३॥
इत्यादि धर्मोपदेशमाकर्ण्य प्रदेशी राजा सम्यक्त्वमूलानि द्वादश व्रतानि जग्राह । राजा दृढव्रतो धर्म पालयन् । नागृहमेधिनां चिराद्वैराग्यवासितोऽभवत् । अन्यदा सूर्यकान्ता पुरुषान्तररागिणी पौषधपारणे विषं प्रदेशीराज्ञे ददौ । पास राजा कृताराधनका प्रान्ते स्मृतपञ्चनमस्कारो मृत्वा स्वर्गे प्रथमे सूर्याभविमाने सुरोऽभवत् । स एवायं देवः ।।
सूर्याभश्चतुःपल्योपमस्थितिरभूत् । अत्र चास्मद्भक्तितो मां यतीश्वरांश्च वन्दितुमागतो भावपूजां चकार । स देवस्ततथ्युतो विदेहेषु मर्त्यभवं प्राप्य सर्वकर्ममुक्तो मुक्तिं गमिष्यति । इतः श्रीगौतमः प्रभुं प्रणम्यान्यत्र विजहार । इतः कस्मिंश्चिदुद्याने श्रीगौतमो यावत् समवासार्षीत, तावदन्यत्रप्रदेशे केशी गणभृत् समवासार्षीत् । केशी गणभृत् गौतमं प्रति प्राह-भो गौतम ! भवानीदृशो वेषादिदृश्यते कथं ? । गौतमस्तदा चतुर्विंशतितमतीर्थङ्कराचार-anesh स्वरूपं जगौ । केश्यपि श्रीपार्श्वनाथाचारादिस्वरूपं जगौ । अत्रोत्तराध्ययनसम्बन्धी विवादो ज्ञातव्यः । शासनभेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org