SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेवर वृत्तिः ॥ ।। ९५ ।। Jain Education hiten | समागतः । गुरुं बहिरुद्याने समागतं श्रुत्वा चित्रश्चित्ते चिन्तितवानिति । अयं चेन्नरकं गन्ता, प्रभुर्मय्यपि मन्त्रिणि । | ततः स्वामिप्रसादाना- महं स्यामनृणः कथम् ॥ १ ॥ ततः केनाप्युपायेन, गुरुं येन नयाम्यहम् । प्रतिकर्ता रुजं । वैद्यो गुरुर्दुष्कर्मणां पुनः ॥ २ ॥ ततो वाहवाहनिकाछलेन मन्त्री भूपति बहिरुद्याने यत्र गुरवो धर्मोपदेशं | ददानाः सन्ति, तत्रासन्नप्रदेशे नीतवान् । वाहान् खेलयित्वा राजा द्रुमच्छायायामुपाविशत् श्रमछिदे, गम्भीरनिर्घोषं शब्दं श्रुत्वा राजाऽवग्, भो चित्र ! कस्य एष शब्दः श्रूयते । न ज्ञायते सम्यक् कस्यायं शब्द इति मन्त्रिणोक्तं, मन्त्रिणा प्रेरितो भूपस्तत्र गुरुसन्निधौ ययौ । उपविष्टोऽग्रे राजा । तदा गुरव एवं प्रोचुः । गिरेः शृङ्ग इवोत्तुङ्गे नृभवेऽपि प्रमादिनः । उत्पद्य स्वास्थ्यं भो भव्याः !, पित्सवः किं भवावटे ॥ १ ॥ पापात्मानः कथं निद्रां कुर्वन्ति निशि निर्भयाः । दीर्घींभूता हि सा तेषां नरकाह्वानहेतवे ॥ २ ॥ | आत्मकर्मान्यलोकादि, परोक्षत्वान्न चेन्मतम् । तत्पितामहपित्राद्या, अपि स्युस्ते न संमताः ॥ ३ ॥ वाचः परप्रबोधाय, प्रोच्यन्तेऽतीन्द्रियश्च सः । तद्वक्तुमपि नो युक्तं, प्रत्यक्षैकप्रमाणिनाम् ॥ ४ ॥ धर्मिणां च विनात्मानमिच्छादिगुणसंश्रयम् । धर्मत्वादिह चैतन्यमन्यथा नोपपद्यते ॥ ५ ॥ इत्यादि धर्मसूक्तानि जीवस्थापकानि श्रुत्वा For Private & Personal Use Only श्रीकेशि गणधर चरित्रम् | ॥ ९५ ॥ Talww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy