________________
॥ श्रीमरतेवर वृत्तिः ॥
॥ ९३ ॥
Jain Education
चरित्रम् ।
कोऽवग्-वृद्धो यो नन्दनो भवति स तु राज्यस्य घर्ता भवत्येव । तेन त्वया न किमपि प्रत्युत्तरो दातव्यः । ततः श्रीपुण्डरीककण्डरीकः पुण्डरीकं पर्यवसाय्य दीक्षां ललौ । पुण्डरीकः प्रजां पालयन् मनो विना स्त्रियं भुङ्क्ते स्म । कण्ड| रिकस्तु नानाविधाभिग्रहादितपः परः संयमं पालयामास । इतोऽन्येद्युः कण्डरीकः संयमश्रीसक्तः सन् कस्यचिन्नरेन्द्रस्य राज्यसम्पदं वीक्ष्य दध्यौ मया मुधा हारितं राज्यं यदर्थमेवंविधं कष्टं करिष्यमाणमस्ति तत्स्वर्गादिसुखमधुना दृश्यते केनापि राज्यं तु प्रत्यक्षसुखमस्त, तेन मुधाऽहं कायक्लेशं करिष्ये । यतः - “ तीव्रं तपो मनोमुख्य-पञ्चेन्द्रि | यादियन्त्रणम् । देहिनां जायतेऽत्यन्त - वेदनाहेतवे खलु ॥ १ ॥ एवं ध्यायन् सदा चित्ते, कण्डरीकोऽधमाशयः । एकेन्द्रियादिजीवानां, विराधनां तनोति सः ॥ २ ॥ एवं विचिन्त्य स्वपितृराज्यं भ्रातृपार्श्वाज्जिघृक्षुः कण्डरीकश्च चाल स्वपुरं प्रति । पुण्डरीकिणीपुर्युपान्तस्थोद्याने समेत्य स्वमुपकरणं वृक्षशाखायां बद्ध्वा शाहले स्थाने कण्डरीक | उपविष्टः । ततः कस्यचिन्नरस्योद्यानपालकस्य मुखात्स्वागमनं कण्डरीको ज्ञापयामास पुण्डरीकाय । ततो राजा हृष्टः स्वभ्रातृपार्श्वे समेत्य ववन्दे तत्क्रमौ । वृक्षशाखायामुपकरणं बद्धमालोक्य पुण्डरीको दध्यौ । अहो ! एवंविधत्रैरा|ग्यवासितचित्तस्य एवंविधा सचित्तविराधनारूपा चेष्टा भवति, तदा मोहस्य विलसितं सर्वम् । यतः- “ क्षणं सक्तः
For Private & Personal Use Only
॥ ९३ ॥
ww.jainelibrary.org