________________
Jain Educatio
I
तथाहि महाविदेहे क्षेत्रे पुष्कलवतीविजये पुण्डरीकिणी पुरी स्वर्गखण्डमिवासीत् । तत्र महापद्मो राजा राज्यं न्यायाध्वना चकार । तस्य पद्मावती प्रिया सच्छीलशालिन्यभूत् । पुण्डरीककण्डरीकौ सुतावभूतां तयोः । एकदा | साधवो नलिनवनोपवनं समाजग्मुः, तत्र वन्दितुं गुरून् महापद्मराजा ययौ । धर्मोपदेशो ददे गुरुभिः । "असारेऽस्मिन् भवे नास्ति, सुखं व्याधिश्च विद्यते । जानन्तोऽपि जना एवं, न कुर्वन्ति वृषं मनाग् ॥ १ ॥ संसारंमि असारे नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥ २ ॥ " इत्यादि धर्मोपदेशमाकर्ण्य महापद्मः | पुण्डरीकाय राज्यं वितीर्य संयमश्रियं जग्राह । पुण्डरीकः कण्डरीकयुतो राज्यं चकार । अन्येद्युः पुण्डरीकः कण्डरीकं प्रति जगौ - भो वत्स मम चिरं भवविरागता जाताऽस्ति । तेन त्वं राज्यं गृहाण | अहं तु चारित्रं संसार - दुःखौघतृणे लवित्रं गृहीष्यामि । कण्डरीकोऽभ्यधात् ज्येष्ठसहोदर ! त्वमेवं किं जल्पसि मामपारसंसाराऽम्भोधौ | पातयितुम् | य आत्मनोऽभीष्टो भवति तस्य तु सुखदं भवति तद्दीयते सद्भिः । राज्यं तु नरकासात - सन्ततिप्रति - | दायकम् । निगद्यते जिनाघीरौ - छद्भिर्हितमङ्गिनाम् ॥ १ ॥ ततः पुण्डरीकोऽपि जगौ - मम विषया न रोचन्ते । | यतः - " वत्स मत्सरिणो ज्ञेयाः विषया विषमूर्तयः । तानीन्द्रियाणि संसारे, पातयन्ति जनांश्चिरम् ॥ १ ॥ " कण्डरी
1
ational
For Private & Personal Use Only
www.jainelibrary.org