SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेवर वृत्तिः ॥ ॥ ९२ ॥ 1 ततः सुकोशलः पित्रा सह विजहार । तीव्रं तपो द्वावपि कुरुतः । सहदेवी पतिपुत्रवियोगादार्तध्यानेन मृत्वा व्याघ्री वनमध्येऽभवत् । कदाचित्तौ पितापुत्रौ मुनी विहरमाणौ व्याध्यधिष्ठितायां भुवि गतौ । तदा व्याघ्रीं संमुखंमाग|च्छन्तीं दृष्ट्वा कीर्तिधरोऽवग्-अन्यस्मिन् मार्गे गम्यते । ततः सुकोशलः साहसमवलम्ब्य तेनैव मार्गेण गच्छन् | कृतानशनो व्याघ्रीविदार्यमाणो वर्यध्यानात् सर्वकर्मक्षयात् केवली जज्ञे । मुक्तिं तत्क्षणादगात् ॥ व्याघ्री सुकोशलदन्तपंङ्कि वीक्ष्योहापोहपरा जातजातिस्मृतिः पुत्रं ज्ञात्वा पश्चात्तापपरा स्वकर्म निन्दन्ती सहस्रारस्वर्गे गता । कीर्तिधरो मुनिरपि प्राप्तकेवलज्ञानो मुक्ति ययौ । इति सुकोशलकथा समाप्ता ॥ १५ ॥ योऽष्टापदे चतुर्विंशतिं जिनान्नौति स तस्मिन्नेव भवे मुक्तिं याति । एवं श्रीवीरपार्श्वे श्रुत्वा गौतमस्वा - म्यष्टापदे जिनान्नन्तुं गतः । देवांस्तत्र नत्वा यावद्बहिर्बलान के उपविष्टस्तावद्वैश्रमणः सुरस्तत्रागतो जिनान्नत्वा धर्म शृण्वन् पुण्डरीकाध्ययनं श्रीगौतमेन कथ्यमानं श्रदधे । ततः स स्वर्गाच्युतो वज्रस्वाम्यजनि । तच्चेदमध्ययनम् - यः पाति संयमं शुद्धं, मनोवचननिग्रहैः । स एव मुच्यते पापा- पुण्डरीकयतीशवत् ॥ १ ॥ यः प्राप्य संयमं मर्त्यो, विराधयति सन्ततम् । स एव लभते दुखं, दुर्गतौ कण्डरीकवत् ॥ २ ॥ Jain Educationtional For Private & Personal Use Only श्रीसुकोशलचरित्रम् | ॥ ९२ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy