SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मशकमेव हि, लूतातन्तु र्न मातङ्गम् ॥ ३ ॥ गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गताः, दृष्टिभ्रंश्यति रूपमेव हसते वक्रं च लालायते ॥ वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा कष्टं जरयाऽभिभूतपुरुषं ।। पुत्रोऽप्यवज्ञायते ॥४॥ संझरागजलबुब्बूवमे, जीविए जलबिन्दुचंचले । जुवणे नईवेगसन्निभे, पावजीव किमत्थं न । बुज्झसे ॥५॥” इत्यादि धर्मोपदेशं श्रुत्वा संवेगधारी कीर्तिधरो राजा शिशुमपि सुकोशलं राज्ये न्यस्य स्वयं दीक्षा जग्राह । प्रतिमाधरः कीर्तिधरो यतिर्गृहीतशास्त्रार्थो विजहार। मात्रा पुत्रस्नेहात स्वर्णजटिता दन्तपतिः कारिता। सुकोशलः । क्रमावर्द्धमानो यदा यदा पितरं स्मरति । तदा तदा माता कीर्तिधरस्य पत्युर्दोषान् गृह्णाति स्म । अथ कदाचित् कीर्तिधरो यतिरयोध्यामध्ये षष्ठपारणे भिक्षायै समागात् तदा सहदेवी तं पतिं दृष्ट्रा दध्यौ । यदि मदीयोऽयं पुत्रः पितरं द्रक्ष्यति तदा दीक्षां गृहीष्यत्येव । तेन पुराद् बहिरयं यतिनिष्कास्यते। ततः सहदेवी तं पति सेवकपार्थात् पराभूय सुकोशलावे. दितमेव पुरान्निष्काशयामास । कीर्तिधरं पतिं पुराहहिनिष्काश्यमानं दृष्ट्रा धात्र्या सुकोशलाय प्रोक्तम् ततः सुकोशल: कीर्तिधरयतिपार्चे गत्वा तं च नत्वा प्राह-पुरमध्ये त्वं समागच्छ । कीर्तिधरोऽवग्-सांप्रतं पुरमध्ये नागमिष्यते मयोपसर्गसम्भवात् । ततः सुकोशलो मातृकृतं पितृपराभवं मत्वा राज्यं तृणवत् त्यक्त्वा पितुः पार्श्वे व्रतं ललौ । JainEducatil For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy